SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार परिचयः ॥२४॥ प्रोचुः-तत्र गतः परावर्त्य से चेत् तदाऽस्मद्दत्तं वेषमत्राऽऽगत्याऽस्मभ्यं ददीथाः । उररीचक्रे सः । गतस्तत्र, पठितुं लग्नः । सुघटितैस्तत्कुतकैः परावर्तितं मनः । तद्दीक्षा ललौ । वेषं दातुमुपश्रीहरिभद्रं ययौ । तैरपि आगच्छन् झटितः (१) । एवं वेषद्वयप्रदानेन एहिरेयाहिराः २१ । द्वात्रिंशवेलायां गुरुमिश्चिन्तितम्-माऽस्य वराकस्य आयुःक्षयेण मिथ्यादृष्टित्वे मृतस्य दीर्घभवभ्रमणं भूत् । पुरापि २१ वारं वादै-* |र्जितोऽसौ, अधुना वादेनाऽलम् , ललितविस्तराख्या चैत्यवन्दनावृत्तिः सतर्का कृता । तदागमे पुस्तिका पादपीठे मुक्त्वा गुरवो बहिरगुः ।। तत्पुस्तिकापरामर्शाबोधः सम्यक् । ततस्तुष्टो निश्चलमनाः प्राह "नमोऽस्तु हरिभद्राय तस्मै प्रवरसूरये । मदर्थ निर्मिता येन वृत्तिर्ललितविस्तरा ॥" (२) श्राद्धप्रतिक्रमणार्थदीपिकाटीकायां श्रीरत्नशेखरसूरयः "मिथ्यादृष्टिसंस्तवे हरिभद्रसूरिशिष्यसिद्धसाधुव्रतम्-स सौगतमतरहस्यमर्मग्रहणार्थ गतः । ततस्तैर्भावितो गुरुदत्तवचनत्वान्मुत्कलापनायागतो गुरुभिर्बोधितो बौद्धानामपि दत्तवचनत्वान्मुत्कलापनार्थ गतः । पुनस्तै वितः । एवमेकविंशतिवारान् गतागतमकारीति । तत्प्रतिबोधनार्थ गुरुकृतललितविस्तराख्यशकस्तववृत्त्या दृढं प्रतिबुद्धः श्रीगुरुपाचे तस्थौ" इति । (३) पाडीवालगच्छीयपट्टावल्याम्गग्गायरिआ य एकया सिरीमालपुरे गया। तत्थ धनी नाम सिट्ठी जिणसावओ । तस्स गिहे सिद्धो णाम रायपुत्तो । सो गग्गरिसि१-गर्गाचार्याश्चैकदा श्रीमालपुरे गताः । तत्र धनी नाम श्रेष्ठी जिनश्रावकः । तस्य गृहे सिद्धो नाम राजपुत्रः । स गर्गाचार्येण दीक्षितः । Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy