SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education Int विक्रमस्व नवम - दशमयोरग्दशतयोर्मध्यभागमेतत्सत्ताधारत्वेन व्यजयन्ति । अन्ये च स्पष्टभावेन षष्ठशतकममत्वमेषामङ्गीकुर्वते तत्राद्यानामिमे प्रवादाः - (१) राजशेखरसूरीणां प्रबन्धकोशे “अत्रान्तरे श्रीमालपुरे कोऽपि धनी श्रेष्ठी जैनः चातुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारं युवानं देयकनकपदे निर्दयैद्यूतकारैर्गर्तायां निक्षिप्तं कृपया तद्देयं दत्त्वाऽमोचयत्, गृहमानीय अभोजयत्, अपाठयत् पर्यणाययत् । माता प्रागण्यासीत् | पृथग्गृहमण्डनिका । श्रेष्ठिप्रसादाद्धनम् । सिद्धो रात्रौ अतिकाले एति, लेख्यक लेखलेखनपरवशत्वात् । श्वश्रु- स्नुषे अतिनिर्विण्णे, अति| जागरणात् । वध्वा श्वश्रुरुक्ता - मातः ! पुत्रं तथा बोधय यथा निशि सकाले एति । मात्रा उक्तः स वत्स ! निशि शीघ्रमेहि, यः कालज्ञः स सर्वज्ञः । सिद्धः प्राह-मातः ! येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतः तदादेशं कथं न कुर्वे ! । तूष्णीकेन स्थिता | माता । अन्यदाऽऽलोचितं श्वश्रु- स्नुषाभ्याम् - अस्य चिरादागतस्य निशि द्वारं नोद्घाटयिष्यावः । द्वितीयरात्रौ अतिचिराद् द्वारमागतः स कटं (कपाटं) खटखटापयति । ते तु न ब्रूतः । तेन क्रुद्धेन गदितम् — किमिति द्वारं नोद्घाटयेथाम् ? । ताभ्यां मन्त्रित पूर्विणीभ्यामुक्तम्| यत्रेदानीं द्वाराणि उद्घाटितानि तत्र व्रज ! । तच्छ्रुत्वा क्रुद्धः चतुष्पथं गतः । तत्रोद्घाटे हट्टे उपविष्टान् सूरिमन्त्रस्मरणपरान् श्रीहरिभद्रान् दृष्टवान् । सान्द्रचन्द्रके नभसि देशना, बोधः, व्रतम्, सर्वविद्यता, दिव्यं कवित्वम् । हंस- परमहंसवद् विशेषतर्कान् जिघृक्षुबौद्धान्तिकं जिगमिषुर्गुरुनवादीत्-प्रेषयताद् बौद्धपार्श्वे । गुरुमिंर्गदितम् - तत्र मा गाः, मनःपरावर्तो भावी ! । ऊऊंचे- युगान्तेऽपि नैवं स्यात् । पुनर्गुरवः | For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy