________________
1G
ASAHARSA-A258
सिय सुहपगरिसरूवो सग्गो तं चेत्थ अणुहवपसिद्धं ।
णय केवलं ति तं णो दोण्ह वि सामन्नसिद्धीओ ॥ १२४४ ॥ स्थादेतत्-सुखप्रकर्षरूपः खर्गस्तच सुखमत्र जगति अनुभवप्रसिद्धम् , तस्मात् नोदनायाः फलं वर्गो युक्तो दृष्टत्वात्, केवलज्ञानं तु न दृष्टं, तत्कथमदृष्टं सत् नोदनायाः फलत्वेन कल्प्यत इति । अत्राह-'तन्नेत्यादि' यदेतदुक्तं तन्न । कुत इत्याह-द्वयोरपि-सुखरूपवर्गकेवलयोस्सामान्येन सिद्धेः ॥ १२४४ ॥ एतदेव भावयति
णहि जं विसिटुसाहणसज्झा दीसंति सुहविसेसा वि ।
सामन्नेण उ दीसइ णाणं पि समाणमेवेदं ॥ १२४५ ॥ नहि-नैव यत्-यस्मात् विशिष्टसाधनसाध्याः सुखविशेषा दृश्यन्ते, किं तु सामान्येनैव सुखमात्रं केवलं, तन्मात्रद-12 शनात् सर्वोत्तमसुखविशेषसंभवोऽनुमीयते, स च खर्गशब्दवाच्यः सन् चोदनायाः फलत्वेन कल्प्यत इति, एतच्च ज्ञानमधिकृत्य समानमेव । तथाहि-यद्यपि ज्ञानप्रकर्षरूपं केवलज्ञानं नोपलभ्यते, तथापि ज्ञानसामान्यदर्शनात्सर्वोत्तमप्रकर्षरूपज्ञानविशेषसंभवोऽनुमीयते, तद्रूपं च केवलज्ञानं चोदनायाः फलत्वेन कल्प्यते इत्यदोषः ॥ १२४५॥ तदेवं स्वपक्षे सौस्थ्यमास्थाय परपक्षे दोषमुद्भावयन्नाह
AAAAA
-NCR
Jain Educati
nal
For Private Personel Use Only
X
w.jainelibrary.org