SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Jain Education सं मांसाशुच्यादीन्यपि जानीयात्, अन्यथा सर्वज्ञत्वानुपपत्तेः, नचैतत् युक्तं, तत्खरूपसाक्षात्का रिज्ञानस्य लोके गर्हितत्वात्, मांसाशुच्यादीनां हि सर्वात्मना साक्षात्परिवेदनेन तदुपभोक्तृणामिवापवित्रत्वप्रसङ्गः, तथा तद्विषयद्वेषादिसंभवाच्चेति, अत आह— सासुइरसणावि तस्स दोसो ण विज्जती चैव । जमणिंदियं तयं ण य रागादीदोसहेतु ति ॥ १२३६ ॥ मांसाशुचिरसज्ञानेऽपि तस्य-भगवतो दोषो न विद्यत एव यत् - यस्मात्तकत् - ज्ञानमतीन्द्रियं इन्द्रियाश्रितं च तत् ज्ञानं लोके गर्हितम् । यदाह प्रज्ञाकरगुप्तः - " अपवित्रत्वयोगः स्यादिन्द्रियेणास्य वेदने । कर्मजेन न चान्येन, भावनाबलभाविना ॥१॥” नापि तज्ज्ञानं भगवतो द्वेषादिदोषहेतुर्निर्मूलत एव द्वेषादीनामुन्मूलितत्वात् ॥१२३६॥ यच्चोक्तम्- 'अन्नं च नज्जइ तओ' इत्यादि तत्राह जय तओ तइया चिंतियसवत्थपगडणेणेव । ववहारणयमतेणं सुसंपदाओ (या) य एहि पि ॥ १२३७ ॥ ज्ञायते च 'तओ त्तिसकः सर्वज्ञस्तदा-सर्वज्ञभावकाले व्यवहारनयमतेन । व्यवहारमेव दर्शयति- चिन्तितसर्वार्थ ational For Private & Personal Use Only ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy