SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Jain Education इत्याह- सर्वपरिच्छेदसिद्धेः - तेनातीन्द्रियप्रत्यक्षेणाशेषद्रव्यगुणपर्याय परिच्छेदसिद्धेर्य थोक्तं प्रागिति । १२३१ ॥ एवं च 'अन्नं च नजर तओ' इत्यतः प्राक् सर्वोऽपि पूर्वपक्षग्रन्थो निरवकाशस्तथापि किंचिदुच्यते - तत्र यदुक्तम्- 'सचमुत्तविसयंपि ओहिणाण' मित्यादि तत्राह - i aणाणमो इह केवलनाणं ण देसणाणेहिं । ता जुत्तो वभिचारो वोत्तुं तस्सोहिमादीहिं ॥ १२३२ ॥ व्यभिचार यत्-यस्मात् अभिहितयुक्तिभिः सर्वज्ञानं सर्ववस्तुविषयं ज्ञानं 'मो' इति पूरणे, इह - जगति केवलज्ञानं 'ता' तस्मान्न | देशज्ञानैः - अवधिज्ञानादिभिस्तस्य - केवलज्ञानस्य व्यभिचारो वक्तुं युज्यते, तान्येव हि देशज्ञानत्वात् कतिपयविषयाणि युज्यन्ते, नतु केवलज्ञानं, तस्य सर्वज्ञानत्वात्, तत्कथमवध्या दिभिरनुपलब्धैर्धर्मास्तिकायादिभिस्तस्य आशङ्कयते इति भावः ॥ १२३२ ॥ यदप्याशङ्कितं प्राक् - 'सङ्घविसयं ति माणं किमिहे'त्यादि तत्राह - सविसयं च एतं ति एत्थ पुवोदिगा (या) तु उववत्ती । जं सामन्नविसेसे विहाय वत्थंतरं णत्थि ॥ १२३३ ॥ सर्वविषयं च एतत्-अधिकृतमतीन्द्रियं प्रत्यक्षमित्यत्र प्रमाणं पूर्वोदितैवोपपत्तिस्तुरवधारणे । तामेव बालावबुद्धये 1 For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy