________________
धर्मसंग्रहणीवृत्तिः
॥४०६ ॥
Jain Educatio
न च ते-विशेषाः साकल्यत इन्द्रियजेन प्रत्यक्षेण गम्यन्ते, तस्य तदवगमसामर्थ्यायोगात्, अविगानेन सर्वेषां तथाप्रतीतेरतस्तदपि -साकल्यतोऽशेषविशेषाधिगन्तु प्रत्यक्षमिह-जगत्यन्यदेवे न्द्रियज प्रत्यक्षादवसेयम् । तत एवं सति विरुद्वदोषो हेतोर्न भवति, 'बाधाया भावात्' विशेषाणां साकल्यतः प्रत्यक्षत्वेनैवान्यथानुपपत्त्या तद्विषयस्य प्रत्यक्षस्येन्द्रयजत्वबाधनात् । न च सति बाधने हेतुर्विरुद्धो भवति, “विरुद्धोऽसति बाधने" इति तल्लक्षणाभिधानादिति ॥ १२२९ ॥ ण तु एवमवस्सं चिय रुक्खा छेयकिरियाऍ विसओ ति । जोगत्ता तं जंसा भणिता इह पत्थिवेसुं तु ॥ १२३० ॥
त्वं ज्ञेयत्वस्य विशेषा इव अवश्यमेव वृक्षाः छेदनक्रियाया विषयो, यस्मात् योग्यतया सा छेदनक्रिया इहजगति पार्थिवेषु भणिता, नत्ववश्यम् । तस्मात् यदुक्तम्- 'नेयत्तमप्प ओजगमित्यादि' तत् दृष्टान्तदार्शन्तिकयोर्वैष| म्यादसमीचीनमेवेति स्थितम् ॥ १२३० ॥ उक्तातिदेशेनैव दूषणान्तरमपाकर्तुमाह
एतेणं चिय सति तम्मि सवमेतावदेव एमादी ।
पडिसिद्धं दट्ठवं सवपरिच्छेदसिद्धीओ ॥ १२३१ ॥
एतेनैव पूर्वोक्तेन सत्यपि तस्मिन्नतीन्द्रियप्रत्यक्षे सर्वमेतावदेवेत्यादि पूर्वपक्षग्रन्थोक्तं प्रतिषिद्धं द्रष्टव्यम् । कुत
For Private & Personal Use Only
सर्वज्ञसिद्धिः
॥४०६ ॥
www.jainelibrary.org