________________
SSESSESSORSANSARASHISHAS
निबन्धनं सामान्यम् , “वस्तुन एव समानः परिणामो यस्स एव सामान्य"मितिवचनात् , समानपरिणामश्चासमानपरिणामाविनाभूतोऽन्यथैकत्वापत्तितः समानत्वस्यैवायोगात्, असमानपरिणामश्च समानपरिणामस्य विपक्षभूतः, स एव च विशेषः । “असमानस्तु विशेष" इति वचनादिति ॥ १२२७ ॥
ता पच्चक्खेणं चिय ते गम्मति त्ति इच्छियवमिणं।
जस्स य ते पच्चक्खा सो सवण्णु त्ति एवं पि ॥ १२२८ ॥ यत एवं विशेषाणां कस्यचित्प्रत्यक्षत्वानभ्युपगमे षष्ठप्रमाणव्यभिचारदोषः प्रसज्यते 'ता' तस्मात् प्रत्यक्षेणैव ते विशेषा गम्यन्त इतीदमेष्टव्यं, तथा यस्य च ते विशेषाः साकल्येन प्रत्यक्षाः स सर्वज्ञ इत्येतदप्येष्टव्यमेवेति । स्यादेतत् , ज्ञेयत्वादिति विरुद्धो हेतुः। तथाहि-शक्यमिदं वक्तुम्-जलधिजलपलप्रमाणादयः सर्वेऽपि विशेषाः कस्यचिदिन्द्रियजेन प्रत्यक्षेण प्रत्यक्षाः, ज्ञेयत्वात् , घटादिरूपादिधर्मवत् । तथा च सति सर्वज्ञस्यापि इन्द्रियजप्रत्यक्षवत्ता प्राप्नोतीत्यनिष्टापत्तिरिति ॥ १२२८ ॥ अत्राह
णय ते इंदियजेणं गम्मति तयंति अन्नमेवेह । एवं विरुद्धदोसो ण होइ बाधाएँ भावातो ॥ १२२९ ॥
ASSASIRISASAISISSANI
Jain Education
a
l
For Private Personal Use Only
OM.jainelibrary.org