________________
धर्मसंग्रहणीवृत्तिः
॥४०५॥
श्यमित्येवं प्रवृत्तिरिष्यते, ततः प्रत्यक्षप्रमाणविषयत्वाभावे उपमानस्यापि ते गम्या न भवन्ति । अर्थापत्यापि एवमेव-अनुमानादिभिरिव ते-विशेषा नावगम्यन्ते । सा हि दृष्टः श्रुतो वाऽर्थों यदन्तरेण नोपपद्यते यथा काष्ठस्य भस्मविकारोऽमेर्दहनशक्तिमन्तरेण तद्विषया वर्ण्यन्ते(ते)। न च दृष्टः श्रुतो वा कोऽप्यर्थः सकलवस्तुगताशेषविशेषानन्तरेण नोपपद्यत इति ॥ १२२६ ॥ यद्येवं ततः किमित्याह
तम्हा अभावविसया संति य वभिचारिमो अभावो भे।
भावे अह किं पमाणं? सामण्णविवक्खभावो तु ॥ १२२७ ॥ यस्मादुक्तप्रकारेण प्रमाणपञ्चकगोचरातिक्रान्तास्तस्मादभावविषया-अभावप्रमाणगोचरास्ते-विशेषाः, तदुक्तम्"प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । वस्त्वसत्तावबोधार्थ, तत्राभावप्रमाणते॥१॥"ति॥अचते विशेषाः सन्ति तस्माद् भे-भवतामभावप्रमाणं व्यभिचारि प्राप्नोतीति । अथोच्येत-तेषां विशेषाणां भावे सत्तायां किं प्रमाणं, येन तद्विषयस्याभावप्रमाणस्य व्यभिचारः प्रसज्यत इति । अत्राह-सामान्यविपक्षभाव एव । तुरेवकारार्थः । विशेषा हि सामान्यविपक्षभूताः, विपक्षभूतविशेषाविनाभावि च सामान्यं, यतो वस्तूनां समानपरिणाम एव समानधिषणाध्वनि
१ समानाधिकरणध्वनीत्यादिपाठः खपुस्तके, अयमेव च कपुस्तके पाठान्तरतयोपन्यस्तः ।
४०५॥
Jain Education
p a
For Private & Personel Use Only
www.jainelibrary.org