________________
णय तेऽणुमाणगम्मा लिंगाभावा ण सद्दगम्मा य ।
विसयाभावा विहिपडिसेहा विसओ जतो तस्स ॥ १२२५ ॥ न यस्माते-जलधिजलपलप्रमाणादयो विशेषा अनुमानगम्या-अनुमानप्रमाणविषयाः, लिङ्गाभावात्-विषयेण विषयिणो लक्षणात् लिङ्गपरिज्ञानाभावात् । नहि विशेषप्रतिबद्धं किंचित् लिङ्गं ज्ञातुं शक्यते, विशेषाप्रत्यक्षत्वेन | तत्प्रतिबद्धस्य लिङ्गस्य ज्ञातुमशक्यत्वात् । अपिच, देशकालव्याप्तिग्रहणेन लिङ्गनिश्चयो भवति, नच विशेषो देशान्तरे कालान्तरे वा संभवति, तस्य प्रतिनियतदेशकालत्वात् । ततो न विशेषेण सह कस्यचित्प्रतिबन्धनिश्चय इति लिङ्गपरिज्ञानाभावः । नापि शब्दगम्या-आगमप्रमाणगम्याः। कुत इत्याह-'विषयाभावात्' आगमप्रमाणविषयत्वाभावात्। कथं विषयत्वाभाव ? इत्याह-यतो-यस्मात्तस्य-आगमस्य विधिप्रतिषेधावेव विषयस्तथाभ्युपगमात् ॥ १२२५ ॥
उवमागम्मा वि ण ते आलंबणजोगविरहतो तेसिं ।
अत्थावत्तीऍ वि एवमेव ते णावगम्मति ॥ १२२६ ॥ उपमागम्या अपि ते-विशेषा न भवन्ति । कुत इत्याह-आलम्बनयोगविरहतस्तेषां-विशेषाणां प्रत्यक्षप्रमाणालम्बनक्रियाभिसंबन्धाभावतः। उपमाया हि 'अनेन दृश्यमानेन गवयेन सदृशो मदीयः पूर्वदृष्टो गौस्तस्य चानेन सार
RECACANCELECCCASSADSOORSCORNER
Jain Education
For Private & Personel Use Only
C
Mjainelibrary.org