________________
धर्मसंग्रहणीवृत्तिः
॥४०४॥
णेयत्तमप्पओजगमिह जोगत्ताए चिट्ठती जेणं ।
जह छेदणकिरियाए रुक्खा णो विधुरभावातो ॥ १२२३ ॥ ज्ञेयत्वमप्रयोजकम्-अगमकं विवक्षितसाध्यार्थाप्रतिबद्धमितियावत्, कथमित्याह-येन कारणेन इह-जगति ज्ञेयत्वं विशेषेषु योग्यतया तिष्ठति, यदि हि भवति तद्विषयं ज्ञानं तर्हि ते ज्ञेया भवन्ति न त्ववश्यमिति, यथा छेदनक्रियाया वृक्षा इति । अत्राह-'नो इत्यादि' यदेतदुक्तं तन्न, कुत इत्याह-विधुरभावात् , दृष्टान्तदान्तिकयोवैषम्यादि. त्यर्थः ॥ १२२३॥ कथं विधुरभाव इति चेदत आह
___ विधुरत्तं च विसेसाण णाणविसयत्तमिच्छियवं तु ।
पावेइ अण्णहा छ?माणवभिचारदोसो तु ॥ १२२४ ॥ विधरत्वं च-वैषम्यं च दृष्टान्तदान्तिकयोर्यस्माद्विशेषाणां ज्ञानविषयत्वमवश्यमेष्टव्यमेव । तुरवधारणार्थः । नत वृक्षाणां छेदनक्रियेव योग्यतया, अन्यथा-एवमनभ्युपगमे पष्ठमानव्यभिचारदोषः-अभावप्रमाणव्यभिचारदोषः तुः पूरणे प्राप्नोति ॥ १२२४ ॥ अमुमेव षष्ठमानव्यभिचारदोषं भावयन्नाह
Jain Education
Sylonal
For Private & Personal Use Only
Jainelibrary.org