________________
ROCHAR
पेक्षते, किंतु कर्मलाघवं, ततो युक्ता तस्य सर्वविषयता । तस्मादेतद्गमनादिकमनुदाहरणमेवात्यन्तवैलक्षण्यादिति ॥ १२२० ॥ पर आह
जीवस्सवि सवेसुं हंत विसेसेसु अत्थि सामत्थं ।।
अहिगमणम्मि पमाणं किमेत्थ णणु णेयभावो तु ? ॥ १२२१ ॥ 'हन्तेति' परामवणे हन्त जीवस्यापि सामान्येन समयतः सर्व वस्तु जानतः सर्वेषु विशेषेषु विषयभूतेषु अधिगमे सामर्थ्यमस्तीत्यत्र किं प्रमाणं ?, नैव किंचिदितिभावः । न चाप्रमाणकं वचो विपश्चितो बहु मन्यन्ते इति । अत्राह-णणु णेयभावो उत्ति' ननु तेषां विशेषाणां ज्ञेयभाव एव तद्विषयाधिगमसामर्थ्यनिर्णये प्रमाणम् ॥१२२१॥ तथाहि
जलहिजलपलपमाणादिविसेसा सव्व एव पच्चक्खा ।
कस्सइ णेयत्तातो घडादिरूवादिधम्म व ॥ १२२२ ॥ जलधिजलपलप्रमाणादयो विशेषाः सर्व एव कस्यचित्प्रत्यक्षा ज्ञेयत्वात् , घटादिरूपादिधर्मवत् ॥ १२२२ ॥ अत्र | परो हेतोरनैकान्तिकतामुद्भावयन्नाह
Jain Education
For Private Personal use only
niainelibrary.org