________________
धर्मसंग्रहणीवृत्तिः
सिद्धिः
॥४०॥
ता जुत्तं च्चिय तासिं ण पगरिसो सवविसओ ति ॥ १२१९ ॥ यस्मादेहो-जन्तुशरीरं गमनादिकासु क्रियासु, आदिशब्दाद्भोजनादिक्रियापरिग्रहः, परिमितसामर्थ्य एव तथादर्शनात् । तस्मात् युक्तमेवैतत् यदुत-तासां गमनादिकानां क्रियाणां प्रकर्षो न सर्वविषय इति ॥१२१९॥ अन्यच्च,
णय एगजत्तसिद्धं (गमणं) च्चिय होइ बीयजत्तम्मि।
__णाणे व हंदि गमणे तम्हा अणुदाहरणमेयं ॥ १२२० ॥ नचाने इव 'हंदीति' परामन्त्रणे, गमनेऽपि एकयत्नसिद्धम्-एकप्रयत्ननिष्पन्नं गमनं यत्तत् द्वितीययत्नेऽपि-द्वितीयपादोत्क्षेपयत्नवेलायामपि सिद्धमेव भवति, परिनिष्पन्नमेव सत् अनुवर्तत इतियावत् , किंतु निवर्तत एव, यत्नाभावे तस्याभावात् । आह च प्रज्ञाकरगुप्तो-'न गमनं पूर्वयनलब्धं प्रयत्नान्तरनिरपेक्षमपितु प्राग्देश एव पुनर्यनमपेक्षते इति,' ततः पूर्वयत्नलभ्य एव यत्नान्तरस्योपक्षीणशक्तिकत्वान्नोत्तरोत्तरविशेषाधानं प्रति तस्य सामर्थ्य, प्रयत्नश्च यद्यप्यभ्यासवशात् प्रकर्षभाग्भवति तथापि शरीरबलापेक्षः, शारीरं च बलं खजात्यनुसारेण प्रतिनियतं, ततो न गमनस्य सर्वविषयता, ज्ञानेन पुनरेकयत्नसिद्धो विशेषो द्वितीययत्नवेलायामप्यनुवर्तते, आत्मखभावत्वात् , ततो [द्वितीयो यत्नः पूर्वयनलभ्ये विशेषेऽनुपयुक्तशक्तित्वादुत्तरोत्तरविशेषाधायको भवति, न च ज्ञानं प्रायः शारीरं बलम
॥४०३॥
Jain Education
Cent
For Private
Personal Use Only
www.jainelibrary.org