________________
REASEARCH
माणे नियमादतिप्रसङ्गः प्राप्नोति, अनिष्टप्रकारान्तरेणापि कल्पनाप्रसक्तेः । तत्कथं प्रकर्षभावसंभवादतीन्द्रियप्रत्यक्षभावानुमानमिति ॥ १२०८ ॥ अत्राचार्य आह
मोत्तूण इंदिए जं पइभाणाणस्स दीसती वुड्डी ।
आवरणहासओ ता सयलस्थपगरिसो अन्नो ॥ १२०९ ॥ | मुक्त्वा इन्द्रियाणि-चक्षुरादीनि यत्-यस्मात् प्रतिभाज्ञानस्य तदावरणीयकर्महासभावतो दृश्यते वृद्धिस्ता-तस्मात्सकलार्थगोचरप्रकर्षभावो ज्ञानस्थान्य एव-इन्द्रियजज्ञानगतप्रकर्षात् व्यतिरिक्त एवातीन्द्रियोऽवसेय इति ॥१२०९॥ स्यादेतत् , अस्ति प्रतिभाज्ञानं, परं न तत् सकलार्थविषयं, कतिपय विषयतयैव लोके तस्यानुभा(भ)वात् , तत्कथमतीन्द्रियज्ञानप्रकर्षः सकलवस्तुविषय इत्यत आह
होति य पतिभाणाणं असेसरूवादिवत्थुविसयं पि । पच्चक्खादधिगतरं तग्गयपज्जायगमगं तु ॥ १२१०॥
MARCHROSCARRACK
१ सयलत्थो इति कपुस्तके ।
Jain Education
For Private & Personel Use Only
Kinjainelibrary.org