SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Jain Education सर्वे च वस्तु 'तओ त्ति' सकः सर्वज्ञः प्रत्यक्षेणैव जानाति, न पुनः सर्वैः प्रत्यक्षादिभिः प्रमाणैः । न चात्र- प्रत्यक्षेण परिज्ञाने 'भिन्नेन्द्रियावसेया रूपादय' इत्यादिकः प्राग्भणितो दोषोऽपि लगति ॥ १२०४ ॥ अन्नं अतिंदियं जं पञ्चक्खं तेण जाणई सवं । तब्भावम्मि पमाणं एगरिसभावो उ नाणस्स ॥ १२०५ ॥ यस्मादतीन्द्रियं प्रत्यक्षमिन्द्रियजात् प्रत्यक्षादन्यत्, ततस्तेन सर्व जानाति, इन्द्रियजे च प्रत्यक्षे प्रागुक्तदोषावकाश इति । यञ्चोक्तम्- 'तभावम्मि पमाणाभावा सद्धेयमेवेय' मिति, तत्राह - 'तन्भावम्मीत्यादि' तद्भावे तु सर्वविषयातीन्द्रियप्रत्यक्षभावे तु प्रमाणं प्रकर्षभावो ज्ञानस्य, नहि सर्वविषयातीन्द्रियप्रत्यक्षभावमन्तरेणान्यो ज्ञानस्य सर्वान्तिमप्रकर्षभावः, किंतु तदात्मक एव प्रकर्षभावः, प्रकर्षभावेन च प्रमीयमाणत्वात् प्रकर्षभाव एव प्रमाणमुक्तो, यथाग्निभावे धूमः प्रमाणमित्यत्रेति । स एव प्रकर्षभावो ज्ञानस्य कथं सिद्ध इति चेत् ? प्रमाणादिति ब्रूमः, तच्च | प्रमाणमिदम् - यदिह तारतम्यवत् तत्सर्वोत्तमप्रकर्षभाक्, यथा परिमाणं, तारतम्यवच्चेदं ज्ञानमिति ॥ १२०५ ॥ न चायमसिद्धो हेतुर्यत आह बोहपरिणामलक्खणमिह सिद्धं आतदव्वसामन्नं । For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy