________________
SAHARA
धर्मसंग्रह-18| देवदत्ते गतिमत्त्वेन देशान्तरप्राप्तिरविनाभूता दृष्टा, तत आदित्येऽपि सा गमयतीति चेत् ?, साधुसाक्षिण्यपि तर्हि |
सर्वज्ञणीवृत्तिः सम्यकचेष्टा माध्यस्थ्येनाविनाभूता दृष्टेति वीतरागेऽपि सा तद्गमयिष्यतीति समानमेतत् । प्रकर्षप्राप्तमाध्यस्थ्येन
सिद्धिः ॥३९॥ सह न दृष्टेति चेत् , देवदत्त पि तर्हि न तथा गगनगतिमत्त्वेनाविनाभूता देशान्तरप्राप्तिदृष्टेति समानमेवेति ॥१२०२॥ अपि च
जह चेव अपच्चक्खो आया ईहादिएहिँ लिंगेहिं ।
गम्मइ तहेव भासादिलिंगओ वीयरागो वि ॥ १२०३ ॥ यथैवाप्रत्यक्षः सन्नात्मा अप्रत्यक्षत्वत एव तेन सहान्वयमुखेन प्रतिबन्धग्रहणमन्तरेणापि ईहादिभिः-ईहापोहमार्गणादिभिर्लिङ्गैर्गम्यते-अनुमीयते, तथैव भाषादिलिङ्गतो वीतरागोऽप्यनुमीयते, तदन्यथानुपपत्त्या प्रतिबन्धनिश्चयस्योभयत्राप्यविशेषादिति ॥ १२०३॥ यदपि च सर्वज्ञत्वमधिकृत्योक्तम्-'सवं च जाणइ कह'मित्यादि, तत्रापि प्रतिविधानमाह
॥३९९॥ सवं च जाणइ तओ पच्चक्खेणेव ण पुण सव्वेहिं । भिन्निंदियावसेयादिभणियदोसो वि ण य एत्थ ॥ १२०४ ॥
OROSCARSANSAR
SRCHSSA
Jain Education International
For Private Personal Use Only
www.jainelibrary.org