________________
ASSAMAGRAMROGROCEROS
है विशेषतो वीतरागप्रतिबद्धा सिद्धा, यस्मादात्मधर्म एव रागाद्यभाव इष्यते, न च स प्रत्यक्षेणावगम्यते' इत्यादि, तदपि दूषयितुमाह
तप्पडिबद्धं लिंगं न दिट्ठमंधेण ण य तओ नस्थि ।
आवरियबुद्धिचक्खू पेच्छति कहमायधम्मं तु ? ॥ १२०२ ॥ तत्प्रतिवद्धं-वीतरागप्रतिवद्धं लिङ्गं न दृष्टमन्धेन-चक्षुर्विकलेन, न च तावता अन्धस्यादर्शनमात्रेण 'तओ त्ति' सको वीतरागो नास्तीति निश्चेतुं शक्यते, अतिप्रसङ्गात् , एवं भवानपि ज्ञानावरणीयकर्माणुपटलावृतबुद्धिचक्षुः कथमात्मधर्म रागाद्यभावलक्षणमतीन्द्रियं पश्यति ?, येन तत्प्रतिबद्धं लिङ्गं जानीयात्, ततो न तव लिङ्गादर्शनमात्रेण तस्याभाव इति । यद्येवं तर्हि कथमुक्तं चेष्टातो व्यवहारेण स वीतरागोऽनुमीयते, ज्ञाताविनाभावो हि हेतुः साध्यस्य गमको भवति, न सत्तामात्रेण, अन्यथा नालिकेरद्वीपवासिनापि धूमदर्शनमात्रादग्निरनुमीयेत, न च | चेष्टायाः सन्नपि वीतरागत्वेन सह प्रतिबन्धो निश्चितो, यथोक्तं प्राक्, ततः कथं तद्दर्शनात्सोऽनुमीयत इति । नैष दोषः। सामान्यतोदृष्टानुमाननीतितस्तदनुमानोपपत्तेः, यथा गतिमान् आदित्यो, देशान्तरप्राप्तेर्देवदत्तवदिति । तथाहि-न दिनकरगतिमत्त्वेन देशान्तरमाप्तिरविनाभूता दृष्टा, अथ च सा तदमयति, एवमिह चेष्टापीति ।
STOCOCCASIONAMROS
Jain Education Arana
For Private & Personal Use Only
Carjainelibrary.org