________________
धर्मसंग्रहणीवृत्तिः
॥३९८॥
SALAMICHELORE
ववहारेणं निच्छि(च्छ) यभावेण उ आगमातो ति ॥ १२०० ॥ वीतरागत्वस्य तावन्निष्प्रतिपक्षं युक्त्या संभवो दर्शितः, ततश्चैवं-वीतरागत्वसंभवे सति 'तओ ति' सको वीतरागो व्यवहारेण चेष्टात एव ज्ञायते, साधुसाक्षिवत्, निश्चयभावेन तु आगमात्, अन्यस्य तत्त्वतोऽसीन्द्रियार्थनिश्चयविषये प्रामाण्यायोगात् ॥ १२०० ॥ ननु व्यवहारतोऽपि स कथं चेष्टातो गम्यते, तस्याः साध्येन सह प्रतिबन्धाभावात् , दृश्यन्ते हि खलु लब्ध्यादिनिमित्तं सरागा अपि वीतरागा इव चेष्टमाना इत्युक्तं प्रागित्यत आह
सम्मेतरचेटाणं अस्थि विसेसो निमित्तभेदातो।
एत्तो च्चिय हेऊतो नजइ सो बुद्धिमतेणं ॥ १२०१ ॥ ___ सम्यगितरचेष्टयोनिमित्तभेदात् कारणात् अस्ति तावत्परस्परं खरूपतो विशेषो-भेदः, यदि पुनर्निमित्तभेदेऽपि
न तयोर्मेदो भवेत् ततो निर्हेतुको विश्वस्य भेदाभेदो प्रसज्येयाताम् । यदपि चोच्यते-'अयमेव हि भेदो भेदहेतुर्वा | यदुत विरुद्धधर्माध्यासः कारणभेदश्चेति' तदपि प्लवेतेति । 'एत्तो चिय इत्यादि' अत एव-चेष्टाविशेषलक्षणाद्धेतोः स वीतरागो व्यवहारेण बुद्धिमता पुंसा ज्ञायते, साधुसाक्षिवत् । दृश्यन्ते खल्वद्यापि निपुणधिषणाः समवगतसम्यगितरचेष्टाविशेषा दर्शनमात्रेणापि साध्वितरसाक्षिणोरवगन्तार इति ॥ १२०१ ॥ यदप्युक्तम्-'न वीतरागचेष्टा
॥३९८॥
Jain Education
For Private
Personal Use Only
M
ainelibrary.org