________________
Jain Education
रागादिवेदणिजस्स कम्मुणो उदयमाइ सहकारी | गादी तस्साभावे य कहं नु ते होंति ? ॥ ११९८ ॥
रागादिवेदनीयकर्मण उदय आदिशब्दात्तथाविधदेशकालादिपरिग्रहः सहकारी रामादीनां दोषाणामुत्पत्तौ, ततस्तस्य - रागादिवेदनीयस्य कर्मणोऽभावे कथं नु ते रागादयो दोषा भवन्ति ?, नैव कथंचनापि भवन्तीति भावः । कारणाभावे कार्याभावात् ॥ ११९८ ॥
अवबोहमादिया पुण सहजा तेसुं तु अवगतेसुं पि । तेसिं चिय सामन्नं चेतन्नं चिद्वती चैव ॥ ११९९ ॥
अवबोधादयो धर्माः पुनः सहजाः - सहभुवस्ततस्तेषु कर्मोदयादपगतेष्वपि तेषामेव -अवबोधादीना यत्सामान्यं चैतन्यमात्रं किंचित्तत् तिष्ठत्येवेति, न कश्चिदिह पूर्वोक्तदोषप्रसङ्गः ॥ ११९९ ॥ यचोक्तम्- 'अन्नं च नज्जइ तओ'
इत्यादि तत्र समाधानमाह -
एवं च नज्जइ तओ चेट्ठाओ चैव साहुसक्खि व ।
For Private & Personal Use Only
jainelibrary.org