________________
एएणं पडिसिद्धा भेदाभेदादिया तु जे दोसा।
जम्हा एगंतातोऽवत्थंतरमो अणेगंतो ॥ ११९५ ॥ । एतेन-अनन्तरोदितेन भेदाभेदव्यवस्थापनेन ये परस्परविविक्तैकान्तभेदाभेदलक्षणमुभयपक्षमाश्रित्य दोषाः परैरभिधीयन्ते यथा-'तत्रापि येनाकारेणाभेदस्तेनाभेद एवे' सादयस्ते सर्वेऽपि प्रतिषिद्धा एव द्रष्टव्याः। तुरेवकारार्थो भिन्नक्रमश्च, स च यथास्थानं योजितः। कथं पुनस्ते दोषाः प्रतिषिद्धा इत्यत आह-जम्हेत्यादि' यस्मादेकान्तात् |पराभ्युपगतादनेकान्तोऽस्मदभ्युपगतो वस्त्वन्तरं-जात्यन्तरं, तत्कथं तत्पक्षभाविनो दोषा इह लगेयुरिति । इदमुक्तं भवति-न परस्परविविक्ती भेदाभेदावपीष्येते येन प्रत्येकभाविनो दोषाः समुदायेऽपि प्रसज्येरन् , किंवभेदानुविद्धो भेदो भेदानुविद्धश्चाभेदो जात्यन्तरं, ततो नोक्तदोषावकाश इति । तेन यदुक्तम्-'पढमपक्खम्मि सवे वि
वीयरागा' इत्यादि, तत्र न सर्वेषां वीतरागत्वप्रसङ्गो, धर्मधर्मिणोरकान्तभेदानभ्युपगमात् , नाप्यात्मनः खरूपापMगमप्रसङ्गः, एकान्ताभेदस्याप्यभावादिति ॥ ११९५ ॥ अत्र पर आह
एवं पि तेसि ण खयो एगंतेणेव धम्मिणो जम्हा । तेऽभिन्नावि कहंची णय णासो सबहा तस्स ॥ ११९६ ॥
धर्म.६७ Jain Education
For Private & Personal Use Only
ainelibrary.org