________________
धर्मसंग्रहणीवृत्तिः
॥३९६ ॥
Jain Education
इह भेदबुद्धिसिद्धा सत्ताधाराऽविगाणेणं ॥ ११९३ ॥
चैतन्यरूपादयो बालकुमारत्वादयो घटकपालादयश्च सर्वे धर्मा इह-जगति भेदबुद्ध्या - भिन्नप्रतिभासया बुद्ध्या अविगानेन सिद्धाः सत्त्वाधाराः - सदितिप्रत्ययहेतुपरिणतिविशेषलक्षणधर्म्या धाराः सन्तो, नत्वन्यथा, निराश्रयाणां तेषामसंभवात् । तस्माद्यथोक्तसत्त्वलक्षणस्तदाश्रयो धर्मी प्रतिपत्तव्य इति ॥ ११९३ ॥ इदानीं धर्मिणा सह धर्माणा भेदाभेदमुपदर्शयति
सत्ताओ अन्नत्ते असत्तमेसिं तहा अणन्नत्ते ।
तम्मत्तयति तम्हा अन्नाणन्ना तु नियमेणं ॥ ११९४ ॥
सत्त्वात्सकाशादेषां ज्ञेयत्वचैतन्यादीनां धर्माणामन्यत्वे - एकान्तेन भेदे अभ्युपगम्यमाने सत्यसत्त्वमेव प्राप्नोति, सत्त्वादन्यत्वात्, खरविषाणवत् । तथा अनन्यत्वे - एकान्तेनाभेदे सति तन्मात्रता - धर्मिमात्रता धर्ममात्रता वा केवला प्राप्नोति, न तूभयम्, अथ चेदमनुभवसिद्धं यथोक्तमनन्तरं, तस्मादन्यानन्या - भिन्नाभिन्ना धर्मिणः सकाशादेते धर्मा नियमेनाभ्युपगन्तव्या यथा दर्शितं प्राक् ॥ ११९४ ॥ तदेवं धर्मधर्मिभेदाभेदमभिधाय सांप्रतं यथाऽस्मिन्निर्दोषता तथा दर्शयति
For Private & Personal Use Only
नैरात्म्य
भावनानिरासः
॥ ३९६ ॥
w.jainelibrary.org