________________
Jain Education In
धर्माणां परस्परं भेदमन्तरेणोपपद्यते, विषयमन्तरेण प्रवृत्तौ भ्रान्तत्वप्रसङ्गात् । तस्मान्न तेषां धर्माणामेकत्वं किंत्वनेकत्वमेव । तदनेन धर्माणामनेकत्वानभ्युपगमे बुद्धिभेदविषय स्वसंवेदनप्रमाणानुपपत्तिलक्षणं बाधकं प्रमाणमुपदर्शितम् ॥ ११९१ ॥ स्यादेतत् ज्ञेयत्वमेव केवलमनेकस्वभावतया भिन्न बुद्धिप्रतिभासनिबन्धनं, तन्न तद्वशाद्धर्मानेकत्वव्यवस्थेत्याहतस्सेवणेगरूवत्तणम्मि सिद्धो तु धम्मभेदो त्ति । अविगाणबुद्धिसिद्धस्स निहवेऽतिप्पसंगो य ॥ ११९२ ॥
तस्यैव - ज्ञेयत्वस्यानेकरूपत्वेऽभ्युपगम्यमाने सति सिद्ध एव धर्मभेदो, रूपाणामेव धर्मशब्दवाच्यत्वात् तेषां चानेकत्वात्, केवलं प्रकारान्तरेणाभ्युपगतस्तद्वरं धर्मिण एवानेके धर्माः सन्तु, तथा लोकानुभवसिद्धेः, न ज्ञेयत्वस्य, विरोधात्, नहि धर्मस्य धर्मा भवन्ति, भावे वा धर्मित्वप्राप्तेर्धर्मत्वव्याघात इति । तदेवं युक्त्यनुभवाभ्यामविगानबुद्धिसिद्धस्य धर्मभेदस्य यदि निह्नवः क्रियते तर्हि तस्मिन् सति सकलशून्यतापत्त्याऽतिप्रसङ्ग एव प्राप्नोतीति यत्किंचिदेतत् ॥ ११९२ ॥ तदेवं धर्माणामनेकत्वमभिधाय सांप्रतमेको धर्मीति समर्थयमान आहचेतणरूवादीया बालकुमारादिघडकवालादी ।
For Private & Personal Use Only
jainelibrary.org