________________
धर्मसंग्रहणीवृत्तिः
LOCACASS
॥३९५॥
ESSAGARAASANGA
एमादि होंति धम्मा धम्मी पुण तेसिमाहारो ॥ ११९० ॥
नैरात्म्ययो ज्ञेयप्रमेयभावोऽवस्थाभेदश्च यो विचित्ररूप एवमादयो धर्मा भवन्ति । धर्मी पुनरेतेषां धर्माणामाधारः-समा-1 भावनानपरिणामलक्षणः, तत एतेषां जात्यन्तरात्मक एव भेदाभेद इति ॥११९०॥ तत्र यदुक्तम्-'एगो धम्मी धम्माणेगे' निरासः इति । तत्र धर्माणामनेकत्वं विपक्षे बाधकप्रमाणोपन्यासेन समर्थयते
सवेसि एगत्ते अविसिट्टा नेयबुद्धिमो सवा।
पावइ भिन्ना य तई अणुहवसिद्धा तु सवेसि ॥ ११९१ ॥ सर्वेषां धर्माणामेकत्वेऽभ्युपगम्यमाने सति अविशिष्टा ज्ञेयबुद्धिरेव केवला सर्वा विवक्षितवस्तुधर्मविषया बुद्धिः ।। प्राप्नोति। 'मो' निपातोऽवधारणे। अस्त्वेवं का नो हानिरिति चेत् अत आह-भिन्ना य तह त्ति' चो हेत्वथै, यस्माद्भिन्ना-भिन्नखरूपा परस्परं 'तइत्ति' सका विवक्षितवस्तुधर्मविषया बुद्धिः। न चैतत् बुद्धिभेदप्रतिभासनं भ्रान्तिरिति वाच्यं, यत आह-'अणुहवसिद्धा उ सन्वेसिं' सर्वेषां-देशकालावस्थाभेदभिन्नानां प्रमातॄणां, तुर्हेतौ, यस्मादियं विव-15
॥३९५॥ क्षितवस्तुधर्मविषया बुद्धिः परस्परं भिन्ना प्रतिभासमाना अनुभवसिद्धा-खसंवेदनप्रमाणसिद्धा, सती बुद्धिरियं भ्रान्तिरिति न शक्यते वक्तुं, मा भूदतिप्रसङ्गः, तस्मान्नेदं बुद्धिभेदप्रतिभासनं भ्रान्तिमात्रं, न चैषा भिन्ना बुद्धिरभ्रान्ता
Jan Education Inten
For Private
Personel Use Only