________________
दोषा आपद्यन्ते, केवलभेदाभेदलक्षणोभयानभ्युपगमेन तन्निवन्धनानां तेषामिहावकाशायोगात् । धर्मिधर्मा हि खभावत एवेत्थमन्योऽन्यसंलुलिता येन न तेषामंशेन भेदोऽभेदो वा केवलः शक्यो व्यवस्थापयितुमिति ॥११८८॥ अमुमेव जात्यन्तरात्मकं भेदाभेदं दर्शयति
एगो धम्मी धम्माऽणेगे जं तेण होति भिन्न त्ति।
जं पुण तेणऽणुविद्धा सत्वेऽवि अतो अभिन्न ति ॥ ११८९ ॥ यद्यपि धर्मा धर्मिणा लोलीभावेन व्यासास्तथाप्ययमेको धर्मी अनेके चामी धर्मा इति यत्-यस्मात् खरूपवैवित्यपरः प्रत्यय उपजायते तेन कारणेन धर्मी धर्माश्च परस्परं भिन्ना भवन्ति । यत्-यस्मात् पुनस्तेन धर्मिणा अनुविद्धा-लोलीभावेन व्याप्ता आत्मसात्कृताः सर्वेऽपि धर्मा अतः-अस्मात्कारणात् तेऽभिन्ना भवन्ति । नचेमौ भेदाभेदावत्यन्तविविक्तावन्योऽन्यं व्याप्तिभावाद्, अतो जात्यन्तरात्मक एव भेदाभेदो धर्मधर्मिणोरिति ॥११८९॥ अमुमेव स्पष्टतरं भावयति
णेयप्पमेयभावोऽवत्थाभेदो य चित्तरूवो तु।
Jain Education Intel
For Private & Personel Use Only
mjainelibrary.org