SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥ ३९४॥ Jain Education नैव कथंचनेतिभावः । तथाहि - एकान्तेनाभेदे सति धर्ममात्रं वा स्यात् धर्मिमात्रं वा इतरेतराव्यतिरिक्तत्वात्, इतरेतरस्वरूपवत्, तथा च सति कथं 'धर्मी, धर्मा' इति द्वयोरभिधानमुपपद्यते ?, एकतरस्यैव सत्त्वात्, आदिशब्दादेकस्याप्यभिधानमयुक्तमिति परिगृह्यते, तयोरात्मलाभस्येतरेतरनान्तरीयकत्वात्, धर्मनान्तरीयको हि धम्र्मी धर्मिना न्तरीयकाश्च धर्माः, ततोऽनयोरेकतरस्याभावेऽन्यतरस्याप्यभाव इत्येकस्याप्यभिधानमयुक्तमिति । तस्मात् भेदाभेदपक्षएव धर्मधर्मिणोः समीचीनः । ननु भेदाभेदपक्षोऽपि कथं समीचीनो यावता तत्रापि येनाकारेण भेदस्तेन भेद एव ततश्च तदपेक्षया कथं तयोः संबन्धः स्यात् १, येन चाकारेणाभेदस्तेनाभेद एव ततश्च तदपेक्षया तयोरेकान्तेनैकत्वमिति द्वयाभिधानमयुक्तम्, तदुक्तम् - "भेदाभेदोक्तदोषाश्च, तयोरिष्टौ कथं न वा ? । प्रत्येकं ये प्रसज्यन्ते, द्वयोर्भावे कथं न ते १ ॥ १ ॥ इति” ॥ अथ येनैवाकारेण भेदस्तेनैवाभेदो येनैव चाभेदस्तेनैव भेद इति, तदप्ययुक्तम्, विरोधातू, तथाहि - येनाकारेण भेदः कथं तेनैवाभेदः, अथाभेदः कथं भेद इति ?, तदेतदसमीचीनम्, अन्योऽन्यव्यासिलक्षणजात्यन्तरात्मक भेदाभेदपक्षाभ्युपगतावुक्तदोषाणा मनवकाशात् । धर्मा हि धर्मिणा सह परस्परं लोलीभावेनावस्थितास्ततो न तयोर्भेद एव, तद्भावे सति लोलीभावस्यानुपपद्यमानत्वात्, नाप्यभेद एव, तथा च सति परस्परमिति विशेषणानुपपत्तेः, द्वयोर्हि विविक्तखरूपलाभे सति परस्परमित्युपपद्यते नान्यथेति, उक्तं च- "अन्योऽन्यमिति यद्भेदं, व्याप्तिवाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योऽन्यव्याप्ति संभवः ॥ १ ॥ इति" । न चात्रोभयपक्षभाविनो 1 For Private & Personal Use Only नैरात्म्य भावना निरास: ॥ ३९४॥ www.jaihelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy