________________
ANSAR
धम्मा य धम्मिणो इह भिन्नाभिन्ना भवंति नायवा।
नवि (हि)धम्मिधम्मभावो जुज्जइ एगंतवादम्मि ॥ ११८७ ॥ धर्माश्च धर्मिणः सकाशादिह-जगति भिन्नाभिन्ना-जात्यन्तरात्मकभेदाभेदोपेता भवन्ति ज्ञातव्याः, नतु भिन्ना नाप्यभिन्ना अपि तु परस्परसंलुलितभेदाभेदसमन्विताः, कुत इत्याह-हिः-यस्मादेकान्तवादेऽभ्युपगम्यमाने सति धर्मधर्मिभावो न युज्यते ॥ ११८७ ॥ कथमित्याह
• एगंतभेदपक्खे धम्मा एयस्स को णु संबंधो ? ।
एगंताभेदम्मिऽवि दुहाभिहाणादि कह जुत्तं ? ॥ ११८८ ॥ एकान्तभेदपक्षे सति ‘एतस्य धर्मिणः संबन्धिनो धर्मा' इति को नु संबन्धः स्यात्, किं तादात्म्यलक्षणस्तदुत्पत्तिलक्षणः समवायलक्षणो वा ?, नैव कश्चिदितिभावः। भेदाभ्युपगमे सति तादात्म्यायोगात्, कार्यकारणभावानभ्युपगमाच तदुत्पत्तेरप्ययोगात् , समवायस्य प्रागेव प्रतिषिद्धत्वादिति । स्यादेतत् , मा भूदेकान्तभेदपक्षे धर्मधर्मिभावः, अभेदपक्षे भविष्यतीत्येतदाशङ्ख्याह-एकान्ताभेदेऽप्यभ्युपगम्यमाने द्विधाभिधानादि-धर्मधर्म्यभिधानादि कथं युक्तं ?
Jain Educati
o
nal
For Private Personal Use Only
S
ww.jainelibrary.org