________________
धर्मसंग्रहतम्हा असपक्खोऽयं जुत्तिविरोधा विवजयपसंगा।
नैरात्म्यणीवृत्तिः
भावनासत्ताणुगुन्नतो पुण जुज्जइ इय देसणामेत्तं ॥ ११८६ ॥
निरासः ॥३९॥ 18| तस्मात् अयं-नास्त्येवात्मेति भावना रागादिदोषप्रहाणनिमित्तमिति पक्षोऽसत्पक्ष एव । कुत इत्याह-युक्तिविरो-18
धात् पूर्वोक्तात्, विपर्ययप्रसङ्गाचानन्तरमेवोक्तात् । यदि पुनरुच्येत-सत्त्वानुगुण्यतः-सांसारिकसुखासक्तजन्त्वानुगुण्यतो भगवतेदं देशनामात्रं कृतं शाश्वतभावास्थानिवृत्त्यर्थमिति, तदा युज्यत एव, देशनाया विनेयानुगुण्येनान्यथापि कथंचित्प्रवृत्तेाह्मणमृतजायाऽमृतदेशनावत् । यदप्युक्तं 'यदा हि मोहादात्माऽस्तीत्यभिमान' इत्यादि यावत् 'यावदात्माभिनिवेशस्तावन्न रागादिदोषप्रहाणमिति' तदप्यु(प्ययु)क्तम् , आत्मनि कथंचिन्नित्यरूपेऽपि सति तथाविधक्षयोपशमयोगेन रागादिदोषसंबन्धिनिदानादियाथात्म्यावगमतो निर्वेदभावेन विरतिपरिणामोत्पादने रागादिदोपप्रहाणोपपत्तेरित्यलं प्रसङ्गेन ॥ यत्पुनरुक्तं-'यत् तद्धर्मभूतं न तस्य निरन्वयविनाशो यथा ज्ञानस्सेति' तत्राचार्यः खयमेव-'धम्मा हवंति दुविहा' इत्यादिना प्रतिविधास्यते । यदप्युक्तम्-'यदनादिमत् न तन्निरन्वयविनाशि यथा|ऽऽकाशमिति' तदप्ययुक्तम् , हेतोरनैकान्तिकत्वात् , प्रागभावेन व्यभिचारात् ॥ ११८६ ॥ यच्चोक्तम्-'धम्मा य धम्मिणो किं भिन्नेत्यादि' तत्र प्रतिविधानमाह
॥३
२॥
Jain Education
For Private & Personal Use Only