________________
चिकित्सायामुत्तरक्षण एकान्तनिर्मलो भवेत् । ननु च लोके पितुर्नीरोगतायां सत्यां तेन तथारूपेण जनितस्य पुत्रस्यापि नीरोगता दृष्टा, तथाऽविगानेन प्रतीतेः । “मिताशनं षट् सुगुणा भजन्ते आरोग्यमायुश्च वपुर्वलं च । अनाविलं चास्य भवत्यपत्यं न चैनमाधून इति क्ष ( क्षि ) पन्ती” त्यादिवचनाच्च । तत्कथमिह रागादिप्रहाणहेतुभूतभावनया विशुद्ध्यमानात् विवक्षितक्षणादुत्तरक्षण एकान्तनिर्मलो न भवेदिति १ । तदयुक्तम्, दृष्टान्तदान्तिकयोरत्यन्तं वैषम्यात् । पुत्रे हि पितृवीर्यस्यान्वयोऽस्ति तत्पुद्गलानामेव पुत्रशरीरतया परिणममानत्वात् ततस्तत्र पितृनीरोगतया पुत्रस्य नीरोगता भवन्ती न विरुध्यते, इह तु प्राक्क्षणस्य निरन्वयविनाशितया निर्मूलत एवापगमे सति कथं तद्विशुद्धेरुत्तरस्य विशुद्धिर्भवेत् ?, मा प्रापदतिप्रसङ्ग इति यत्किंचिदेतत् ॥ ११८४ ॥ पुनरपि दूषणान्तरमाह - नो भावी मे दोसो मम चेवाभावओ त्ति ता विसए । भुंजामि किं न बुद्धी जायइ इरातवादम्मि ? ॥ ११८५ ॥
नो भावी - न भविष्यति मे मम दोषो, विवक्षितक्षणानन्तरमेव निरन्वयविनाशितया ममैव तदानीमभावात्, 'ता' तस्माद्विषयान् - मनोज्ञरूपादिलक्षणान् भुजे इति किन्न बुद्धिर्नैरात्म्यवादेऽभ्युपगते सति जायते ?, जायत एवेति भावः । अभिहितयुक्तेः समीचीनत्वात् ॥ ११८५ ॥ उपसंहारमाह---
Jain Educational
For Private & Personal Use Only
ww.jainelibrary.org