SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 24 धर्मसंग्रहणीवृत्तिः नैरात्म्यभावना निरास: ॥३९२॥ ****** इति । अपिच, 'नो इत्यादि' नो भावी-न भविष्यति मे-मम व्याधिरिति ज्ञात्वा 'चो' दूषणान्तरसमुच्चये, को नाम क्रियां-तदभवनप्रतिविधानलक्षणां करोति ?, नैव कश्चिदन्यत्र मूढात् । एवमिहापि न मम रागादिनिमित्तः संसारो भावी अनन्तरमेव मम निरन्वयविनाशादिति ज्ञात्वा को नाम रागादिप्रहाणनिमित्तं भावनायां यतेतेति ॥११८३॥ पर आह पुत्तस्स नो भविस्सइ गहणे सति तस्स जुज्जए एतं । अन्नस्स चिगिच्छाए पउणइ अन्नो न लोगम्मि ॥ ११८४ ॥ यथा इदं धनं भाविनि काले ममानुपयोगीति जानन्नपि पिता पुत्रस्य-आत्मजस्य नः-अस्माकं भविष्यतीति बुद्ध्या तदुपार्जनं प्रति प्रयतते, तद्वदिहापि मत्संतानभावी परंपरया उत्तरः क्षणो रागादिक्लेशविमुक्को भविष्यतीति जानन् रागादिप्रहाणहेतुभावनायां यतत इति । अत्राह-गहणे सइ तस्स जुज्जए एयं' ति तस्य पुत्रस्य ग्रहणे-दर्शने सति पुत्रस्य नो भविष्यतीत्येतत्संकल्पनं पितुयुज्यते नान्यथा, तथा लोके दर्शनात्, नचेह खसंतानवर्तिनो भाविन उतरक्षणस्य विवक्षितज्ञानक्षणेन ग्रहणमस्ति, तत्कथं स तन्निमित्तं रागादिप्रहाणाय यतेतेति । अन्यच, लोके न अन्यस्य एकान्तविलक्षणस्य चिकित्सायां क्रियमाणायामन्यः प्रगुणीभवति, तथादर्शनाभावात् , तत्कथमिह विवक्षितक्षण MAURIS ॥३९॥ Inin Educatio jalnelibrary.org n For Private Personal Use Only al
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy