________________
Jain Education
सति असति वावि तम्मि एसा सइ कह णु सम्मरूवति ? । मिच्छारूवा य कहं ? पहाणहेऊ विरोहातो ॥ ११८२ ॥
नवेष भावना किं सति तस्मिन् - आत्मनि क्रियेत असति वेति विकल्पद्वयम् । तत्र यदि सतीति पक्षः कथं नु सा भावना सम्यग्रूपा भवेत् ?, किंतु मिध्यारूपैव स्यात्, सति आत्मनि असन्नयमात्मेति प्रवृत्तेः, मिथ्यारूपा चैषा भावना कथं दोषप्रहाणहेतुः ?, विरोधात् । तथाहि - मिध्याभावनानिबन्धना एव दोषास्तत्कथं तत एव क्षीरन्निति ॥ ११८२ ॥ द्वितीयं पक्षमधिकृत्याह
असइ य को भावेत ? खणिगो अह सबहा निसिद्धो सो । नो भावी मे वाही नाउं च करेइ को किरियं ? ॥ ११८३ ॥
असति चात्मनि को नाम भावनां भावयेत् ?, नैव कश्चिदितिभावः, तदतिरेकेणान्यस्य भावकत्वायोगात्, घटादौ तथादर्शनाभावात् । अथोच्येत परपरिकल्पिताविचलितैकरूप आत्मा नास्तीत्युच्यते न पुनर्ज्ञानरूपः प्रतिक्षणनश्चरखभावः, ततः स भावनां भावयिष्यतीत्यदोष इति । तदयुक्तम्, यत आह- 'सबहा निसिद्धो सो' स-यस्मात्प्रतिक्षणविनश्वरखभाव आत्मा भवत्परिकल्पितः सर्वथा प्राक् परिणामित्वसिद्धौ निषिद्धो- निराकृतः, तस्मान्न स भावको युक्त
For Private & Personal Use Only
w.jainelibrary.org