________________
%
नैरात्म्यभावनानिरासः
धर्मसंग्रह- तत्सहकारिभूतकर्मसंबन्धाभावस्योक्तयुक्तितः सर्वाद्धं भावात् ॥ ११८० ॥ तदेवं यथारूपा रागादिप्रतिपक्षभावना णीवृत्तिः
यथा च तद्वशाद्रागादिदोषप्रहाणं यथा च तेषामपुनर्भावस्तथा प्रतिपादितमिदानीं पुनर्ये भावनामन्यथा वर्णयन्ति 18 तन्मतमपाकर्तुमुपम्यस्यन्नाह॥३९॥
__ अन्ने उ नत्थि आया इति भावणमो सुदिपरमत्था ।
दोसपहाणनिमित्तं वयंति निस्संकियं चेव ॥ ११८१॥ अन्ये-सौगताः सुदृष्टपरमार्था वक्ष्यमाणयुक्त्या तदभ्युपगमस्यात्यन्तासारताप्रतिपादनात् उपहासपद(र)मेतदवसेयं, नास्त्येवात्मेति भावनां दोषप्रहाणनिमित्तं निःशङ्कितमेव वदन्ति । तद्यथा-यथा(दा)हि मोहादात्माऽस्तीत्यभिमानो भवति तदा तत्राहमिति स्नेहो जायते, तस्माच स्नेहात् यानि तत्सुखसाधनानि तानि ममेत्यादत्ते, तदुपरोधिनि च प्रतिहतिप्रणिधानं करोति, आत्मात्मीयस्नेहश्च रागस्तदुपरोधिनि प्रतिहतिप्रणिधानं च द्वेषस्तस्मात् यावदात्माभिनिवेशस्तावन्न रागादिदोषप्रहाणमिति । उक्तं च-“यः पश्यत्यात्मानं तत्रास्थाहमिति शाश्वतः स्नेहः । स्नेहात्सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥१॥ गुणदर्शी परितुष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत्तावत्स संसारे ॥२॥ इति"। आत्माभिनिवेशाभावे तु 'नाहं न चेदमात्मीयं नवा कश्चित् मम प्रतिरोद्धेति भावयतो भवत्येव रागादिदोषप्रहाणमिति ॥ ११८१॥ तदेतन्मतमपाकुर्वन्नाह
E6%AMASSAC85
॥३९॥
Jain Education
a
l
For Private Personal Use Only
www.jainelibrary.org