________________
धर्म. ६६
Jain Education
कारंजणरउच्च चि ॥ ११७८ ॥ स्यादेतत् भवतु निःशेषतोऽपि रागादिदोषप्रहाणं तथापि भूयस्ते कथं न प्रादुर्भ| वेयुर्येन निष्प्रतिपक्षं तस्य वीतरागत्वं सिच्छेदित्यत आह
खीणाय ते ण होंति पुणो वि सहकारिकारणाभावा ।
न हु होइ संकिलेसो तेहिँ विउत्तस्स जीवस्स ॥ ११७९ ॥
क्षीणाश्च रागदयो दोषाः पुनरपि न भवन्ति । कुत इत्याह- 'सहकारिकारणाभावात्' रागादिवेदनीयकर्मलक्षणसहकारिकारणाभावात् । अमुमेव सहकारिकारणाभावं दर्शयति- 'न हु इत्यादि' न हु नैव दुरवधारणे तैः- रागादिदोषैर्विप्रमुक्तस्य सतो जीवस्य संक्लेशः -अशुभाध्यवसायरूपो भवति, तस्य तद्धेतुकत्वात्, अन्यथा कारणान्तराभावे - नाहेतुकत्वतः सर्वत्र तद्भावप्रसङ्गात्, आकस्मिकस्य देशकालनियमायोगात् ॥ ११७९ ॥
तदभावे ण य बंधो तप्पा ओग्गस्स होइ कम्मस्स । तदभावा तदभावो सबद्धं चैव विन्नेओ ॥ ११८० ॥
तदभावे - संक्लेशाभावे नच-नैव बन्धस्तत्प्रायोग्य स्य- संक्लेशप्रायोग्यस्य भवति कर्मणो - मोहनीयादेस्तस्य तन्निमित्तत्वात्तदभावे ग्रावादौ तस्याभावदर्शनात्, ततस्तदभावात् - कर्माभावात्तदभावो - रागादिदोषाभावः सर्वाद्धमेव विज्ञेयः,
For Private & Personal Use Only
www.jainelibrary.org