________________
धर्म संग्रह - णीवृत्तिः
॥ ३९०॥
Jain Education In
“दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ १॥ मुनिस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद्विदिशं न कांचित्, कर्मक्षयात्केवलमेति शान्तिम् ॥ २ ॥” इति ॥ ११७७ ॥ तन्मतमपाकर्तुमाह
म्हास थिरो धम्म कम्मक्खयतो य वीयरागतं । तम्हा असोभणं चिय नेयं जलजलणणायंपि ॥ ११७८ ॥
यस्मात्स-आत्मलक्षणो धर्मी स्थिरो - नित्यस्वभावो द्रव्यरूपतया अतस्तस्यैव कथंचिदवस्थितस्य (घाति) कर्मक्षयतो वीतरागत्वं (च शब्दात् ) सकलकर्मापगमतो मुक्तत्वं, तस्मादशोभनमेव ज्ञेयं जलज्वलनज्ञातमपि - पूर्वोक्तखरूपम् । न च तथापि एकान्तेन विनाशः, सतः सर्वथा विनाशायोगात्, केवलं ते प्रदीप रूपज्वलनादिपरमाणवस्तथाविधाभासुरसूक्ष्मरूपतामा पन्नास्ततो न दृश्यन्त इति, तदुक्तम् - "नय सङ्घहा विणासोऽनलस्स परिणामओ पयस्सेव । कुंभस्स कवालाण व तहाविकारोवलंभाओ ॥ १ ॥ जइ सङ्घहा न नासोऽनलस्स किं दीसए न सो सक्खं ? । परिणामसुहुमयाओ १ नच सर्वथा विनाशोऽनलस्य परिणामतः पयस इव । कुम्भस्य कपालानां वा (ला इव) तथाविकारोपलम्भात् ॥ १ ॥ यदि सर्वथा न नाशोऽनलस्य किं दृश्यते न स साक्षात् ? । परिणामसूक्ष्मतया जलदविकाराञ्जनरजोवत् ॥ २ ॥
For Private & Personal Use Only
सर्वज्ञतासिद्धिः
॥ ३९०॥
jainelibrary.org