SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Jain Education ते होंति जं ततो सिं जुज्जइ एमेव खवणं तु ॥ ११७६ ॥ अज्ञानादिनिमित्तं यत् कर्म - मोहनीयादि तस्य ये भेदा-लोभमोहनीयादयः तद्योगात् - तत्संबन्धतो यत् - यस्मात्ते - | रागादयो दोषा भवन्ति ततः - तस्मादेतेषां - रागादिदोषाणां क्षपणमेवमेव - ज्ञानादिभावनारूपेणैव प्रकारेण युज्यते ॥ ११७३ ॥ एतदेव स्पष्टतरं भावयति बंधइ जहेव कम्मं अन्नाणादीहिँ कलुसियमणो तु । तह चैव विक्खे सहावतो मुञ्चति तेणं ॥ ११७७ ॥ यथैवाज्ञानादिभिः कलुषितमनाः सन् जीवः कर्म्म-ज्ञानावरणीयादि वनाति तथैव तद्विपक्षे- ज्ञानादिसद्भावरूपे | सति स्वभावतस्तेन कर्मणा मुच्यते, नहि कारणोच्छित्तावपि कार्यस्योद्भवो भवति, निर्हेतुकत्वप्रसङ्गात्, अज्ञानादि - निमित्तं च कर्म, ज्ञानादि चाज्ञानादिप्रतिपक्षभूतं ततो ज्ञानादिनैरन्तर्याभ्यासवशतो निर्मूलत एवाज्ञानादिव्यवच्छित्तौ कुतस्तन्निमित्तकर्मसंबन्धसंभवो ? येन तदुदयनिबन्धना रागादयो दोषा भवेयुरिति ज्ञानादिरूपा भावना रागादिप्रतिपक्षभूतेति स्थितम् ॥ इह केचिन्मन्यन्ते यथेह जले शुष्के सति यथा वा प्रदीपरूपे ज्वलने विध्याते सति पश्चान्न किंचिदवतिष्ठते तद्वदिहापि नारकादिरूपसंसारस्य निर्मूलतोऽपगमे सति पश्चान्न किंचिदवतिष्ठते, उक्तं च For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy