________________
धर्मसंग्रहणीवृत्तिः
सर्वज्ञतासिद्धिः
॥३८९॥
ज्ञानादीनाम् । तत्र ज्ञायतेऽर्थोऽनेनेति ज्ञानं, तच प्रकाशकं, प्रकाशकत्वेन ज्ञानमुपकुरुते गृहमलापनयने प्रदीपव|दिति भावः । तथा शोधयतीति शोधकं, किं तदित्याह-'तपः' तापयति अनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च
शोधकत्वेनोपकुरुते, गृहशोधने कर्मकरपुरुषवत्। संयमनं संयम-आश्रवद्वारविरमणं चशब्दः पृथक् ज्ञानादीनां विव|क्षितफलसिद्धौ भिन्नोपकारकारित्वावधारणार्थः, गोपनं गुप्तिः-कर्मकचवरागमनिरोधस्तत्करणशीलो गुप्तिकरः, संयमोऽपि कर्मकचवरागमनिरोधकरणेनोपकुरुते इति भावः, गृहशोधने पवनप्रेरितकचवरागमनिरोधकरणेन वातायनादिस्थगनवदितियावत् । उक्तं च-"ज्ञानं सुमार्गदीपं सम्यक्त्वं तदपराङ्मुखत्वाय । चारित्रमाश्रवघ्नं क्षपयति क-1 माणि तु तपोऽग्निः॥१॥"इति, एवं त्रयाणामेव अपिशब्दोऽवधारणे, अथवा संभावने, किं संभावयति ?, त्रयाणामपि ज्ञानादीनां क्षायिकाणां नतु क्षायोपशमिकादीनामिति समायोगे-संयोगे मोक्षः-सकलकर्ममलविकलतालक्षणो जिनशासने भणितः-प्रतिपादितः। नन्वेवं तर्हि “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" इत्यागमो विरुध्यते , सम्यग्दर्शनमन्तरेणापि उक्तलक्षणज्ञानादिद्वयादेव मोक्षप्रतिपादनात् , न विरुध्यते, सम्यग्दर्शनस्य ज्ञानान्तर्भावात् , तदन्त-1 रेण ज्ञानस्य ज्ञानत्वस्यैवायोगादिति ॥ ११७५॥ अथ कथमेषा ज्ञानादिका भावना रागादिप्रतिपक्षभूतेस्थत आह
अन्नाणादिनिमित्तं जं कम्मं तस्स भेदजोगाओ।
॥३८९॥
Jain Education Intake
For Private & Personel Use Only
Mainelibrary.org