SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञतासिद्धिः धर्मसंग्रह संपत्तिनिप्फलो केवलं तु मूलं अणत्थाणं ॥ ११७१ ॥ णीवृत्तिः । विषयश्च-रागादिदोषाणां ख्यादियौवनादिकः खलु-निश्चितं भङ्गुरः क्षणदृष्टनष्टस्वरूपस्तथा गुणरहितो-रागवत्स॥३८॥18 मारोपितमनोज्ञत्वादिगुणविरहितस्तथाच तथातथारूपो-मनोज्ञामनोज्ञखरूपः, तथाहि-य एव विषयो रागवेदनीयो दयवशादभीष्टः प्रतिभात आसीत् स एवेदानी बुभुक्षादिवेदनीयाक्रान्तमनसोऽनभीष्टः प्रतिभाति । तदुक्तम्-"तानेवार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतोऽस्यानिष्टं न विद्यते किंचिदिष्टं वा ॥१॥” इति, 'संपत्तिनिप्फलो त्ति संप्राप्तिरिह परत्र च श्रेयोहेतुत्वमधिकृत्य निष्फला यस्य स तथाभूतः, केवलं मूलमेव-कारणमेवानर्थानाम्, तदुदक्तम्-“रागद्वेषोपहतस्य केवलं कर्मबन्ध एवास्य। नान्यः खल्पोऽपि गुणोऽस्ति यः परत्रेह च श्रेयान् ॥१॥” इति॥११७१॥ ____ जम्मजरामरणादी विचित्तरूवो फलं तु संसारो। बुहजणणिवेदकरो एसोऽवि तहाविहो चेव ॥ ११७२ ॥ रागादिदोषाणां फलं संसारः, स च यस्मात् जन्मजरामरणादिर्विचित्ररूपो बुधजननिर्वेदकरस्तस्मादेषोऽपि तत्फलभूतस्संसारस्तथाविध एव-अशोभन एव ॥ ११७२ ॥ १ तथाच तथारूपो. ख.। SSSS ॐ Jain Education For Private Personel Use Only Kajainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy