________________
भावयति च सम्यगेष-भावको दोषाणां-रागादीनां निदानं तथा खरूपं विषयं फलं च प्रतिकलमवदातबुद्धिर्भावयन् तेषु दोषेषु विरज्यते-विरक्तो भवति ॥ ११६८ ॥ तत्र यथा दोषाणां निदानं भाव्यं तथा दर्शयन्नाह
जं कुत्सि(च्छि)याणुजोगो पयइविसुद्धस्स चेव जीवस्स ।
एतेसिमो णिदाणं बुहाण न य सुंदरं एयं ॥ ११६९ ॥ यत्-यस्मादेतेषां रागादिदोषाणां निदानं-कारणं प्रकृतिविशुद्धस्यैव सतो जीवस्य कुत्सिताणुयोगः-कुत्सितकर्माशसंबन्धस्तस्मात्, न च-नैव बुधानाम्-अवगतवस्तुतत्त्वानां सुन्दरमेतन्निदानमुपेक्षितुमिति गम्यते ॥ ११६९॥
रूवंपि संकिलेसोभिस्संगापीतिमादिलिंगो उ।
परमसुहपच्चणीओ एयंपि असोहणं चेव ॥ ११७०॥ रूपमपि-खरूपमपि यस्माद्रागादिदोषाणां संक्लेश एवाभिष्वङ्गाप्रीत्यादिलिङ्गः, तुरवधारणे भिन्नक्रमश्च स च यथास्थानं योजितः, परमसुखप्रत्यनीकः-परमानन्दरूपप्रशमसुखप्रत्यनीकस्तस्मादेतदपि खरूपमशोभनमेवेति ॥११७०॥ विषयभावनामाह
विसओ य भंगुरो खलु गुणरहितो तह य तहऽतहारूवो।
Jain Education
For Private & Personel Use Only
www.jainelibrary.org