________________
धर्मसंग्रहणीवृत्तिः ॥३८७॥
वशादपकर्षिणश्च रागादय इति ॥११६६ ॥ प्रतिपक्षभावनातो रागादिक्षय इत्युक्तं अतस्तस्या एव प्रतिपक्षभाव- सर्वज्ञतानाया योग्यो यो भवति तमुपदर्शयन्नाह
सिद्धिः नाणी तवम्मि निरओ चारित्ती भावणाएँ जोगो त्ति ।
सा पुण विचित्तरूवावत्थाभेदेण निहिट्ठा ॥ ११६७ ॥ ज्ञानी-हेयोपादेयवस्तुयाथात्म्यावगमवान् , तपसि-बाह्यान्तरभेदभिन्ने यथाशक्ति निरतः-आसक्तः, चारित्री-सद-15 सक्रियाप्रवृत्तिनिवृत्तिलिङ्गगम्यशुभपरिणामविशेषवान्, एष इत्थंभूतो रागादिप्रतिपक्षभावनाया योग्यो भवति, नान्यः, तस्य यथाभावनप्रवृत्त्ययोगतस्तस्या मिथ्यारूपत्वात् । सा पुनर्भावना विचित्ररूपाऽवस्थामेदेन-अप्रमत्तगुणस्थानकाधारोहणक्रमेणानेकावस्थाभेदेन निर्दिष्टा-कथिता तीर्थकरगणधरैरिति ॥ ११६७ ॥ तदेवं भावनायोग्यं भावनाभेदांश्चाभिधाय सांप्रतं यद्भावयति तद्दर्शयतिभावेइ य दोसाणं निदाणमेसो तहा सरूवं च ।
॥३८७॥ विसयं फलं च सम्मं एवं च विरजई तेसुं ॥ ११६८ ॥ १ यथाभावनं, खपुस्तके ।
Jain Education
For Private 3 Personal Use Only
A
jainelibrary.org