________________
Jain Education
जइ नाम हासभावो सवाभावम्मि तेसि को हेऊ ? । पविक्खभावण चिय सम्मं अद्धाविसेसेणं ॥ ११६५ ॥
यदि नाम प्रतिपक्षभावनावशात् रागादीनां हासभावस्तथापि तेषां - रागादीनां निःशेषतोऽपगमे को हेतुरिति वाच्यं ? । अत्राचार्य आह- प्रतिपक्षभावनैव सम्यक् क्रियमाणा अद्धाविशेषेण । १९६५ ॥ किमत्र प्रमाणमितिचेत् ? उच्यते
देसक्खोऽथ जेसिं दीसइ सबक्खयोऽवि तेसिं तु । तद्धेतुपरिसातो कंचगमलरोगमादीणं ॥ १९६६ ॥
देशक्षयः अत्र-जगति येषां भावानां दृश्यते तेषां सर्वक्षयोऽपि भवति, तद्धेतुप्रकर्षतः - क्षयहेतुप्रकर्षतः सकाशात्, यथा काञ्चनमलरोगादीनाम् । काञ्चनमलादीनां हि क्षारमृत्पुटपाकादिसामग्रीसंपर्क तो देशक्षयदर्शनानन्तरं तत्सामग्रीपरिपाकप्रकर्षवशात् सर्वात्मनापि क्षयो दृष्टस्तद्वद्रागादीनामपीति । प्रयोगश्चायम्-ये यदुपधानापकर्षिणस्ते तदत्यन्तवृद्धौ तदभिभवान्निरन्वयविनाशधर्माणो, यथा- क्षारमृत्पुटपाकाद्युपधानात् काञ्चनमलरोगादयः, प्रतिपक्षभावना
For Private & Personal Use Only
w.jainelibrary.org