________________
धर्मसंग्रहणीवृत्तिः
॥३८६ ॥
Jain Education
पुरिसादित्ता हेऊ दिट्टंतो देवदत्तो व ॥ ११६२ ॥
प्रतिषेधकं च मानं प्रमाणं सर्वज्ञस्य विद्यते, तद्यथा - सः - विवक्षितो वर्द्धमानखाम्यादिरसर्वज्ञ इति (नः) प्रतिज्ञा, पुरुपादित्वात्, आदिशब्दाद्वक्तृत्वपरिग्रह इति हेतु:, देवदत्त (इव) इति दृष्टान्तः, एष पूर्वपक्ष: ॥११६२ ॥ अत्राचार्य आहजइ णाम जीवधम्मा अणादिमंतो य एत्थ रागादी । संभव तव विरहो इह कत्थइ हासभावाओ ॥ ११६३ ॥ पडवक्खभावणाओ अणुहवसिद्धो य हासभावो सिं । थीविग्गहादितत्तं भावयतो होइ भवस्स ॥ १९६४ ॥
यदि नामात्र - जगति रागादयो दोपा जीवधर्मा अनादिमन्तश्च तथापि तेषां विरहः- सर्वथापगमः संभवति । कुत इत्याह- इह प्रतिपक्षभावनातः कुत्रचित् विरक्तचेतसि पुंसि तेषां रागादीनां हासभावात्-क्षयभावदर्शनात् । न च वाच्यमसौ हासभावोऽसिद्ध इति, यत आह-अनुभवसिद्धश्च एषां - रागादिदोपाणां हासभावः, यतः स्त्रीविग्रहादितत्त्वं स्वीकलेवरा दियाथात्म्यं भावयतः कस्यचित् भव्यसत्त्वस्य रागादिहासभावो भवत्येव, तथानुभवभावात् ।। ११६३-१९६४ ॥ अत्र पर आह
For Private & Personal Use Only
सर्वज्ञतासिद्धिः
॥३८६ ॥
lainelibrary.org