________________
धर्म. ६५
Jain Educatio
णत एव गमकं नान्यथा, लिङ्गलिङ्गिसंबन्धग्रहणं च प्रत्यक्षत एवाभ्युपगन्तव्यं नानुमानतोऽनवस्थाप्रसक्तेरतः प्रत्यक्षपूर्वकमेवानुमानमिति ॥ ११५५ ॥ अस्तु प्रत्यक्षपूर्वकमनुमानं ततः को दोष इति चेत् उच्यतेणय पञ्चखेण तओ घेप्पइ लोगम्मि अन्ननाणस्स ।
निच्चपरोक्aत्तणओ लिंगेवि अतो चियानियमो ॥ ११५६ ॥
न च प्रत्यक्षेण 'ओत्तिसको लिङ्गलिङ्गिसंबन्धो गृह्यते । कुत इत्याह-लोकेऽन्यज्ञानस्य नित्यपरोक्षत्वात्, तथा च तस्मिन्नगृहीते कथं तेन सहाविनाभावहेतोः संबन्धस्य लिङ्गे निश्चयः ? । 'अतो चिय त्ति' अत एव च संबन्धग्रहणाभा वादेव लिङ्गेऽपि लिङ्गत्वेनानियमः, 'तस्येदमेव लिङ्गमेतदेव वेति' नियमनिश्चयाभावः । तत्कथमनुमानेनापि सर्वज्ञ इति ज्ञायते ।। ११५६ || आगममधिकृत्याह -
गम्मइ न यागमातो जं पुरिसकतो स होज निच्चो वा ? | पुरिसकओ चिन्नुरत्थपुरिसेहिँ भइयो | ११५७ ॥
न चागमात् प्रमाणादयं सर्वज्ञानीति गम्यते यस्मात्स आगमः किं पुरुषकृतः - पौरुषेयो भवेत् नित्यो वा १, पुरुषकृतोऽपि च सर्वज्ञकृतो वा स्यात् रथ्यापुरुषकृतो वा १ ॥ ११५७ ॥ किंचातः
For Private & Personal Use Only
w.jainelibrary.org