SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३८३ ॥ Jain Education सिद्धं अतिंदियं पि हु ओहादि ण सङ्घविसयं ते ॥ ११४९ ॥ अत्र लुसोsपिशब्दो द्रष्टव्यः सत्यपीति । नास्त्येव तावदतीन्द्रियं प्रत्यक्षं तद्ब्राहकप्रमाणाभावात्, सत्यपि तस्मिन् सर्वमेतावदेवेति तस्य सर्वज्ञस्यात्मनिश्चयः कथं नूपजायते ?, नैव जायते इति भावः । कुत इत्याह- 'हुः' यस्मादर्थे यस्मादतीन्द्रियमपि प्रत्यक्षमवध्यादि न सर्वविषयं न सर्ववस्तुगोचरं 'ते' तव राद्धान्ते सिद्धम् ॥ ११४९ ॥ ततः किमित्याहजह सवमुत्तविसयपि ओहिनाणं न धम्ममादीणं । गाहयमिय केवलमवि अन्नेसिमगाहगं किण्णो ? ११५० ॥ यथा सर्वमूर्त्तविषयमध्यवधिज्ञानं न धर्म्मादीनां धर्मास्तिकायादीनां ग्राहकमितिः- एवं केवलमपि - केवलज्ञानमपि अन्येषां केषांचिद्वस्तूनामग्राहकमिति किन्न संदेहो जायते ?, जायत एवेति भावः, तन्निवृत्तिनिबन्धनाभावात् ॥ ११५० ॥ अत्राचार्याभिप्रायमाशङ्कते - सविसयं ति माणं किमेत्थ जं णोवलब्भती अन्नं । ओही अणुवद्धेहिं धम्ममादीहिँ वभिचारो ॥ ११५१ ॥ यस्मादिदं केवलज्ञानं सर्वविषयं तत् कथमन्येषामपि केषांचिद्वस्तुनामिदमग्राहकमिति संदेह उपजायते इति । For Private & Personal Use Only सर्वज्ञतासिद्धिः ॥३८३॥ v.jalnetibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy