________________
भिन्निदियावसेओ (आ) रूवादी सुहुमववहितादी य । कहमवगच्छति सवे जुगवं नेत्तादिणेकेण ? ॥ ११४७ ॥
भिन्नेन्द्रियावसेया रूपादयो- रूपरसगन्धस्पर्शाः सूक्ष्मा व्यवहिताश्च, अत्रादिशब्दादत्यासन्नामूर्त्तादयो गृह्यन्ते, ततश्च तान् सर्वानपि रूपादीन् युगपदेकेन नेत्रादिना - नेत्रोद्भवादिना प्रत्यक्षेण कथमवगच्छति? नैव कथंचनेतिभावः । तस्य भिन्नेन्द्रियावसेये सूक्ष्मादौ च प्रवृत्त्ययोगात् ॥ ११४७ ॥ अथ -
अन्नं अतिंदियं से पञ्चक्खं तेण जाणई सवं ।
तब्भावम्मि पमाणाऽभावा सद्धेयमेवेयं ॥ ११४८ ॥
अन्यत् - ऐन्द्रियप्रत्यक्षादितरत् अतीन्द्रियं प्रत्यक्षं 'से' तस्य सर्वज्ञस्य विद्यते तेन सर्वे जानाति ततो न कश्चिद्दोष इत्यत्राह - 'सद्धेयमेवेयमिति' इदम्-अतीन्द्रियं प्रत्यक्षं श्रद्धेयमेव- श्रद्धामात्रगम्यमेव । कुत इत्याह-तद्भावे - अतीन्द्रियप्रत्यक्षभावे प्रमाणाभावात् । न च प्रमाणमन्तरेण प्रमेयव्यवस्था, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः ॥ १९४८ ॥ अत्रैवाभ्यु| चयेनाह
सति तम्म समेतावदेव तस्सऽत्तनिच्छओ किह णु ? |
Jain Education International
For Private & Personal Use Only
w.jainelibrary.org