________________
सर्वज्ञतासिद्धिः
॥३८२॥
धर्मसंग्रह- तथाहि-तदपि लिङ्गस्य साध्याविनाभावग्रहणे सति प्रवर्तते, ततस्तत्रापि लिङ्गस्य साध्याविनाभाषग्रहणमनुमानाणीवृत्तिः |न्तरात् कर्त्तव्यं तत्राप्यनुमानान्तरादित्यनवस्था ॥ ११४४ ॥
अग्गहितम्मि य तम्मि अविणाभावग्गहो कहं होजा? ।
अब्भुवगमम्मि य तहा अइप्पसंगादसारमिणं ॥ ११४५॥ | अगृहीते च तस्मिन्-आत्मधर्मरूपे रागाद्यभावे कथं तेन सह चेष्टाया अविनाभावग्रहो भवेत् ? नैव भवेदितिभावः । अगृहीतेऽपि च रागाद्यभावे तेन सहाविनाभावग्रहणस्वाभ्युपगमेऽतिप्रसङ्गो-यस्य कस्यचित् येन तेन वा सहाविनाभावग्रहणप्रसक्तेः । तस्मात् यदुच्यते चेष्टाविशेषाद्वीतरागत्वनिश्चितिरिति तदसमीचीनमवसेयम् ॥ ११४५॥ तदेवं वीतरागत्वं निराकृत्य संप्रति सर्वज्ञत्वं निराकुर्वन्नाह
सत्वं च जाणइ कह? किं पञ्चक्खेणुदाह सोहिं ? ।
पच्चक्खमादिएहिं माणेहि दुहावि णणु दोसो ॥ ११४६ ॥ | सर्व हि वस्तु जानातीति सर्वज्ञः, सर्वं च जानाति किं प्रत्यक्षेण ? उत सवैरेव प्रत्यक्षादिभिः प्रमाणैः १, किंचात | इत्साह-द्विधापि पक्षद्वयेऽपि ननु दोषः ॥ ११४६ ॥ तत्र प्रथमपक्षमधिकृत्य दोषमाह
CHUSANSAMROSAGAR
॥३८२॥
Jain Educational
For Private & Personel Use Only
KMw.jainelibrary.org