________________
धर्मसंग्रहणीवृत्तिः ॥३८॥
सर्वज्ञतासिद्धि
अन्नं च नजइ कहं जह एसो रागदोसरहितो त्ति ? ।
चेट्टाओ चेव मती तन्नो पडिबंधऽभावातो॥ ११४१ ॥ अन्यच्च कथमिदं ज्ञायते यथा-एषः-परिदृश्यमानः पुरुषो रागादिदोषरहित इति ?, नैव कथमपि, प्रमाणाभावादितिभावः । अथ स्यान्मतिः-चेष्टात एव वीतराग इति ज्ञायते । तत्राह-'तन्नो' इत्यादि यदेतदुक्तं तन्न । कुत इत्याह-'प्रतिबन्धाभावात्' वीतरागत्वेन सह चेष्टायाः प्रतिबन्धनियमाभावात् । न च प्रतिवन्धमन्तरेणान्यदर्शने अन्यकल्पना युक्ता, मा प्रापदतिप्रसङ्ग इति ॥ ११४१ ॥ प्रतिबन्धाभावमेव स्पष्टतरमुपदर्शयति
लद्धादिनिमित्तं जं चिटुं दरिसिंति वीतराग व।
मुद्धजणविम्हयकरि हंदि सराग च्चिय मणूसा ॥ ११४२ ॥ 'लब्ध्यादिनिमित्तं' लब्धिप्रशंसादिनिमित्तं सरागा अपि सन्तो मनुष्या 'हंदीति' परामन्त्रणे, वीतरागा इव चेष्टां कायवाकर्मवृत्तिलक्षणां मुग्धजनविस्मयकरी कुर्वन्तो दृश्यन्ते, तन्न वीतरागत्वेन सह चेष्टायाः प्रतिबन्धसिद्धिः F॥ ११४२ ॥ स्यादेतत्-मा भूत् चेष्टामात्रस्य वीतरागत्वेन सह प्रतिबन्धश्चेष्टाविशेषस्य तु भविष्यतीति तत आह
॥३८१॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org