________________
धर्मसंग्रहणीवृत्तिः
॥३८०॥
Jain Education
एसो उ भावधम्मो भणिओ परमेहिं वीयरागेहिं । सर्व्वन्नूहि सुत्ते पवंचतो सवदरिसीहिं ॥ ११३७ ॥
एष तु भावधर्म्मः सूत्रे प्रपञ्चतो भणितः परमैर्वीतरागैः सर्वज्ञैः सर्वदर्शिभिस्ततस्तस्मादेव सूत्रात् प्रपञ्चेन ज्ञेय इति ॥ ११३७ ॥ यदुक्तं 'वीतरागैः सर्वज्ञै' रिति, तत्र परस्य चोद्यमपाकर्तुमुद्भावयन्नाह —
ional
चोति कहं रागादिदोसविरहो हविज्ज सत्तस्स ? | तद्धम्म चिय जम्हा अणादिमंता य ते तस्स ॥ ११३८ ॥
चोदयति परो यथा-कथं रागादिविरहः सत्त्वस्य भवेत् यद्वशाद्वीतरागता सर्वज्ञता वा भवेत् ?, नैव भवेदिति भावः । कथं न भवेदित्यत आह- 'तद्धम्म चिय जम्हा' यस्माद्रागादयो दोषास्तद्धर्मा एव आत्मधर्मा एव यच्च तद्धर्म्मरूपं न तस्य निरन्वयो विनाशो, यथा- ज्ञानस्य, तद्धर्म्मभूताश्च रागादयो दोषास्तत्कथं तेषामभाव इति । द्वितीयं | हेतुमाह - 'अणादिमंतोय ते तस्स' ते रागादयो दोषास्तस्य - आत्मनोऽनादिमन्तो, यच्चानादिमन्न तन्निरन्वयविनाशि यथा आकाशम्, अनादिमन्तश्च रागादय इति न रागद्वेषमोहादिदोषाभावः ॥ ११३८ ॥ अपिच,
For Private & Personal Use Only
सर्वज्ञतासिद्धिः
॥३८० ॥
ww.jainelibrary.org