SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Jain Educatio न हि तारिसे होउं तीरइ सइ दुविहलिंगेवि ॥ ११११ ॥ यादृशं गुरुलिङ्गमित्यादि असमीक्षिताभिधानं, यस्मान्न द्विविधलिङ्गेऽपि - द्विविधेऽपि लिने द्रव्यभावभेदभिन्ने सदा तादृशेनैव शिष्येण भवितुं शक्यते, सर्वेषामपि तेन सह समानधर्मताप्राप्तेरेतच्चानिष्टमिति ॥ ११११ ॥ अह तल्लिंगसमं चिय लिंगं तेणावि होइ कायवं । सिवाए सिद्धं चिय एगंतेणं तु तदजुत्तं ॥ १११२ ॥ अथोच्येत तल्लिङ्गसममेव-निर्ग्रन्थ जिन लिङ्गसमानमेव लिङ्ग तेनापि तच्छिष्येणापि भवति कर्त्तव्यं, यथा रक्तचीवरधारिणः सुगतस्य विनेया अपि रक्तचीवरधारिण इति । अत्राह - 'सियेत्यादि' तल्लिङ्गसमं - निर्ग्रन्थ जिनलिङ्गसमं लिङ्गं स्याद्वादे- कथंचिद्वादे सिद्धमेव, भगवत इव साधूनामपि शिरोलुञ्चनभिक्षाटन कल्पनीयान्नपानग्रहणादिषु यतमानत्वात्, एकान्तेन तु तलिङ्गसमं लिङ्गं न युक्तं, तीर्थकृता सह समानधर्म्मताप्राप्तेः, अपिच-न भगवता पिच्छि काद्यपि गृहीतं ततो 'यादृशं गुरोर्लिङ्गं शिष्येणापि तादृग्लिङ्गयुक्तेन भवितव्यमिति' वच एकान्तेन प्रमाणीकुर्वद्भिः कथं भवद्भिरपि पिच्छिकादि गृह्यते ? । अथ धर्मोपकरणत्वाददोष इति मन्येथास्तदेतद्वस्त्रेऽपि समानं यथोक्तं प्रागिति ॥ १११२ ॥ प्रकारान्तरेण परस्यासमीक्षिताभिधायितामाह tional For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy