________________
धर्म संग्रहणीवृत्तिः
॥३७३॥
Jain Education
गृह्यमाणत्वात् । ततः किं तेन विचिन्तितेन ( तव ) यथा - ' वस्त्रग्रहणे सति कथं निर्ग्रन्थतेति', किंतु यथावदवगमे मनो निवेश्यतामिति ॥ ११०८ ॥ अथैतन्मन्यसे :
जारिसयं गुरुलिंगं सीसेणवि तारिसेण होयवं ।
नहु होइ बुद्धसीसो सेयवडो नग्गखवणो वा ॥ ११०९ ॥
यादृशं गुरोर्लिङ्गं शिष्येणापि तादृशेन तादृग्लिङ्गयुक्तेन भवितव्यम्, नहि भवति बुद्धस्य शिष्यः श्वेतपटो नग्नक्षपणको वेति ॥ ११०९ ॥
निग्गंथो य जिणो जं एगंतेणेव लोगसिद्धमिणं ।
तम्हा तस्सीसावि हु निग्गंथा चेव जुज्जंति ॥ १११० ॥
निर्ग्रन्थश्च जिनो यत् - यस्मादेकान्तेनैव भवति, इदं च सकललोकप्रसिद्धम्, तस्मात्तच्छिष्या अपि निर्ग्रन्था एव युज्यन्त इति ॥ १११० ॥ अत्राचार्य आह
जारिसयं गुरुलिंगं इच्चादसमिक्खिताभिहाणं तु ।
For Private & Personal Use Only
परिग्रहविरतौ धर्मो
पकरण
स्यासङ्गता
॥ ३७३ ॥
w.jainelibrary.org