________________
Jain Education I
ज्ञातव्यम् । अथ पात्रं विनाप्येतत्-वैयावृत्त्यं कराभ्यां करिष्यते ततो न तदभावप्रसङ्ग इति, तदप्ययुक्तम्, तत्राप्यनेकदोषप्रसङ्गात्, तथाहि - वैयावृत्त्यविषयेणापि गुर्वादिना करगतानां गोरसादिगतप्राणिनां दर्शने सति यदि तत् गोरसादि पीयते तर्हि महती विराधना, भूमिपरित्यागे च तेषां व्यापत्तिरिति । अथ गृहस्थभाजन एव तत् गोरसादि निरीक्ष्य अभ्यवहारः कारयिष्यते ततो न कश्चिदोष इति, तदपि न समीचीनम्, न हि कश्विदेवं कुर्वन्नुपलभ्यते, न च सर्व एव गृहस्थो भण्डकादेः स्पर्शनं ददातीति, यत्किंचिदेतत् । अन्यच, ग्लानस्य कथं कर्त्तव्यं ?, यदि तत्रैव गृहस्थगृहे ग्लानो नीयते ततस्तस्य मरणादिदोपप्रसङ्गः । अथ श्रावकः स्वभाजन एवानयति तर्हि गृहस्थस्य गम - नागमने ऐर्यापथिकविराधनाप्रसङ्गः । न च कदाचनापि गृही भिक्षामटित्वा आनयति किंतु स्वगृह एव पाकं कृत्वोपसर्पति ततश्चानेषणा समारम्भात् षड्जीवनिकायविराधनाप्रसक्तिरित्यलं दुर्मतिविस्पन्दितेष्विति ॥ १०९८ ॥ उपसंहरति
ताइ पत्तग्गहणं जुज्जर जिणवयणमुणियसारस्स । दावभयरक्खणटुं जलोघगहणं व कंतारे ॥ १०९९ ॥
For Private & Personal Use Only
jainelibrary.org