SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३७० ॥ स्यादेतत्-तथापि - अभिहितप्रकारेणापि परिस्थापने कृते सति ते जलसंसक्ताः प्राणिनः खलु कालान्तराद्विपद्यन्ते, ततश्च तदवस्थ एव हिंसादोष इति । अत्राह - 'सुद्धा इत्यादि' स हि साधुर्यतनया परिस्थापनं करोति, यतना च सम्यक्त्वादिगुणाराधनफला । यदुक्तम् - "जयेणाऍ वट्टमाणो सम्मं सम्मत्तनाणचरणाणं । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥१॥"त्ति, ततश्च तेषु जलजन्तुषु कालान्तराद्विपद्यमानेष्वपि शुद्ध एव स साधुर्यथाऽन्येषु म्रियमाणेष्विति ॥ १०९७ ॥ अत्र पर आह अहि गुणो गहितेवि अवि य गुरुस्सेह बालवुड्डाणं । वेयावच्चावायणमभावतो तस्स तं दुट्टं ॥ १०९८ ॥ अगृहीते सति पात्रे निस्सङ्गतालक्षणो गुणो भवति, ततस्तदग्रहणमेव समीचीनमिति । अत्राह - गृहीतेऽपि पात्रे गुण एव पादादिधावनजलादिसत्त्वव्यापत्त्यभावलक्षणः प्राग्दर्शित एव, ततः कथं तदग्रहणं समीचीनं भवेत् १ ॥ अपिच, गुरुशैक्षवालवृद्धानां वैयावृत्त्यापादनं पात्रग्रहणे गुणः । तस्मात्तत्-पात्राग्रहणं तस्य — वैयावृत्तस्याभावप्रसङ्गतो दुष्टं १ यतनया वर्तमानः सम्यक् सम्यक्त्वज्ञानचरणानाम् । श्रद्धाबोधाऽऽसेवनभावेनाराधको भणित इति ॥ १ ॥ Jain Educational For Private & Personal Use Only परिग्रहविरतौ धर्मो पकरणानामसङ्गता ॥३७०॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy