________________
तत्थवि य महीसिचलणादिघट्टदेसम्मि उज्झओ विहिणा।
तदभावे काऊणवि अञ्चित्ते हंत को दोसो ? ॥ १०९१ ॥ । तत्रापि च जलार्द्र स्थाने महिषीचरणादिना घृष्टे-लघुग रूपे जाते देशे-प्रदेशे विधिना-यतनालक्षणेन सूत्राभिहितेन उज्झतः-परित्यजतः, तदभावे-महिषीचरणादिघृष्टलघुग रूपदेशाभावे कृत्वापि ग रूपं देशमचित्ते स्थाने परित्यजतो हन्त को दोषो?, नैव कश्चनेति भावः॥१०९१॥ अत्र पराभिप्रायमाह
सिय अञ्चित्तो उ तओ किमेत्थ माणं ? जिणागमो चेव ।
काया मिहो उ सत्थं वन्नादीपरिणयमचित्तं ॥ १०९२ ॥ स्यादेतत्, परस्परं संयोगतः 'तओत्ति' सको जलार्दो देशोऽचित्त एवेत्यत्र किं मान-प्रमाणं ?, न हि प्रमाणमन्तरणोच्यमानं प्रेक्षावतामुपादेयं भवतीत्यत आह-जिनागम एवं प्रमाणम् , अतीन्द्रियार्थनिर्णीतौ निश्चयतस्तस्यैव विजृम्भमाणत्वात् , उक्तंच-"अतीन्द्रियेषु भावेपु,प्राय एवंविधेषु यत्। छद्मस्थस्याविसंवादि, मानमन्यन्न विद्यते ॥१॥”। इति॥१०९२॥तमेवागमं दर्शयति-'कायेत्यादि' कायाः-पृथ्व्यादयः परस्परं शस्त्रम् । वर्णादिभिश्च परिणतमचित्तमिति॥
Shin Education
For Private & Personal use only
A
njainelibrary.org